SearchBrowseAboutContactDonate
Page Preview
Page 512
Loading...
Download File
Download File
Page Text
________________ १० सर्गः] हीरसौभाग्यम् । १५१ राजा चन्द्रो नृपश्चेति द्विराजं तस्य भावो द्वैराज्यं तद्वद्वराज्यमिवाभूत् जातम् । किंलक्षणेन नृपसूरिराजश्लोकावनीधनयुगेन। महानतिशायी अभ्युदयोऽनवरतपरोलक्षप्रतिपक्ष. पयोधरविधंतुदादिभिरप्रतिहताद्वैतवैभवो यस्य । पुनः किं कुर्वता । कुवलयं पृथ्वीमण्ड. लमुत्पलं च संप्रीणता । प्रीतिमुत्पादयतेत्यर्थः । विकाशयता च । परं केवलमत्र द्वैराज्ये तच्चित्रमाश्चर्यमस्ति । यत्कारणादङ्गभाजः प्राणिनः न विद्यते तद्वैतं द्वितीयं कारणं युगलं वा यत्रेत्यद्वैतमसाधारणमानन्दपदं हर्षस्थानं दधुर्धारयन्ति स्म । द्वैराज्ये हि जनानां विषाद एव स्यात् , अत्र तु परमप्रमोदः, एतदेव महदाश्चर्यम् ॥ स्पधी दधन्निजयशःप्रसरैः खलक्ष्म्या क्षोणीभुजा बहिरितो विहिताः खदेशात् । खःसिन्धुरोधसि तदादि मृगं दधानो राजानिशं मृगयुवत्किमु बम्भ्रमीति ॥ १२ ॥ क्षोणीभुजा.अकब्बरनृपतिना निजानामात्मीयानां यशसां कीतीनां प्रसरैविस्तारैः सह खलक्ष्म्या आत्मश्चैत्यश्रिया साधै स्पर्धा संहर्षमभ्यसूयां दधद्विभ्राणः सन् राजा चन्द्रो नृपश्च इतोऽस्माद्भूमण्डलवर्तिनः खदेशानिजजनपदादात्मप्रदेशाद्वा बहिःकृतो निष्कासितः देशत्यागं कारितः। उत्प्रेक्ष्यते-तदादि तस्माद्वासरादारभ्य मृगं लक्ष्म कृष्णसारं दधानः कलयन् मृगयुवल्लुब्धक इव खःसिन्धोर्गगनगङ्गाया रोधसि तटे अनिशमहोरात्रं किमु बम्भ्रमीति अतिशयेन भ्राम्यतीव । प्रायो मृगेणैव मृगा गृह्यन्ते नद्यादिनीरसंनिधाने च पयःपानार्थ बन्यसत्त्वाश्च समायान्ति इति खयशःस्पर्धी चन्द्रो राज्ञा पृथ्वी पीठानिष्कासितो नभसि पर्यटतीत्यर्थः ॥ .. यस्यौजसि स्फुरति जैत्र इव त्रिलोक्यां - त्रासादिवाम्बुनिधिमम्बुधिमत्रजिह्वः । वज्रः पुरंदरकरं सरसीजपाणिः पादं हरेरपि दवोऽद्रिभुवं बभाज ॥ १३ ॥ ... यस्य राज्ञो जैत्रे जयनशीले इव ओजसि प्रतापे त्रैलोक्यां जगत्रयेऽपि स्फुरति परिभ्राम्यति सति त्रासादाकस्मिकभयात् । उत्प्रेक्ष्यते-अम्बुधेः समुद्रस्य मन्त्रजिह्वः कृशानुः वडवानल: अम्बुनिधिमूर्मिमालिमध्यमिव बभाजाश्रयति स्म । अपि पुनर्वञो दम्भोलि: पुरंदरस्य वासवस्य कर हस्तमिवाश्रितः । अपि पुनः सरसीजं कमलं पाणौ हस्ते यस्यैतावता मार्तण्डो हरेर्नारायणस्य पादं चरणं विष्णुपदमाकाशं श्रितवानिव । अपि पुनर्दवो दावानल: अद्रिभुवं पर्वतघनगहनावनीमिव सेवते स्म ॥ १. लिखितपूर्वटिप्पणिवत् 'परस्लक्षा' इति भवेत्,
SR No.002262
Book TitleHeer Saubhagya Mahakavyam
Original Sutra AuthorN/A
AuthorDevvimal Gani, Shivdatta Pandit, Kashinath Sharma
PublisherKalandri Jain S M Sangh
Publication Year1985
Total Pages980
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy