________________
९ सर्गः]
हीरसौभाग्यम् ।
दिना क्षिप्तः स तस्माद्वन्दिमन्दिरात् प्रपञ्चचातुर्येण कृत्वा निर्गन्तुं कामयते। इति मेषजीमुनेः प्रतिमाक्षरदर्शनात्प्रतिबोधः ॥
तन्मताधिकृतान्वेषधरान्वागुरिकानिव । ___ पाशे पातयतो मुग्धान्मृगानिव विवेद सः ॥ १०९ ॥ स मेघजीमुनिस्तस्य लुम्पाकस्य यन्मतं पक्षस्तत्राधिकृतोऽङ्गीकृतो यो वेषो विरुद्धसाधुलिङ्गं धरतीति तन्मतस्याधिकारिणो वेषधरा वा केवललिङ्गधारकास्तान् लुम्पाकान् वागुरिकान् वागुरा मृगजातिलकामृगादिजन्तुग्रहणपाशोऽस्त्येषामिति वागुरिकाः । अस्त्यर्थे इकः । 'अइके मत्वर्थे' इति सारस्वतेन । तान् जालिकानिव विवेद हदि जानाति स्म । किं कुर्वतः । मृगान् हरिणानिव मुग्धानभिज्ञान् तत्त्वातत्त्वविचारणाचतुरेतरान् जनाअन्तून् पाशे पाशसंदृशे कुमते पातयतः क्षेपयतः । तथानापि कोऽपि मुग्धः प्रतिभाप्रागल्भ्यनिर्मुक्तो न किमपि कपटचर्यादिकं वेतीति तादृगज्ञः केनापि धूर्तेन वारवन्धादिप्रदानेन विमोश खीकृतो लोकैः पाशे पातितेऽसौ विमुच्यते ॥
अमी वीडा प्रकुर्वन्ति बका इव शनैः शनैः।
सतां सम्यग्दृशो हन्तुं कान्तः शफरीरिव ॥ ११० ॥ अमी लुम्पाकवेषधारका बका बकोटा इव शनैः शनैर्मन्दं मन्दमालोक्यालोक्य मुग्धविप्रतारणबुद्धया वीजां गमनं प्रकुर्वन्ति पादौ विमुश्चन्ति । उत्प्रेक्ष्यते सताम् अस्मासु श्रावकत्वं नाना विद्यते पर तत्त्वं सम्यक्तया न विद्यः तेषां श्राद्धानां सतां पर मुग्धानां सम्यग्दृशः सत्यज्ञानदृष्टी । सम्यक्तानीत्यर्थः । हन्तुं व्यापादयितुं भ्रंशयितुमिव कासन्तः इच्छन्तः । का इव । शफरीरिव । यथा बकाः शफरीमत्स्यीहन्तुं स्पृहयन्तः • शनैर्हिण्डन्ते ॥
विगोपनमिवैतेषां वेषं वेषभृतामवैत् ।
तन्मतस्थं पुनमैने सौधं कूपगतं निजम् ॥ १११ ॥ स मेघजीऋषिरेतेषाममीषां कलिकालविलसितेन महावीरदेवशासनेऽपि कण्टकप्राचुद्विहुभूतानां लुम्पाकानां वेषभृतां जैनाभासलिङ्गधारिणां वेषं लिङ्गं विगोपनमिव विडम्बनाप्रायमवेत् मनसि बुबुधे । पुनः स मेघजीमुनिः तेषां लुम्पाकानां मते पक्षे तिष्ठतीति तन्मतस्थं निजमात्मानं सौधं कूपगतमिवेत्यध्याहारः । बह्वन्धकारकलितपातालावटमध्य. निष्पतितमिव मेनेऽज्ञासीत् । इति गभिंतोपमा ॥
आप्तोक्तिरत्नगर्भायाममीषां प्रतिमार्हताम् ।
निधिकुम्भीव दुःस्थानां पथिकी नाभवदृशोः ॥ ११२ ॥ आप्तोक्तिरागमः सैव रत्नगर्भा वसुंधरा तस्यां दुःस्थानां दरिद्राणां निधिकुम्भीव रत्ननिधानकलशीव । अमीषां लुम्पाकमतपक्षीभूतभूयोवेषधारिणामर्हतां तीर्थकृता
५३