________________
काव्यमाला।
परिणतफलमण्डलकलितान् सालमण्डलान् विदधाति इत्यनुक्रमः । चक्रमणेनिजागमन: कृत्वा वनीमुद्यानवीथीं वनमालां लम्भयतः । 'खवनीसंप्रवदत्पिकापि का' ॥ इति ध्यानोत्थानाकमिपुरागमनाचार्यपदस्थापनम् ॥
कोऽपि मेधाविमूर्धन्यो लुम्पाकानां मते तदा ।
मेघजी ऋषिरित्यास्ते नानामध्ये माणयथा ॥ १०५॥ तदा तस्मिन्नवसरे लुम्पाकानां 'लउका' इति नाम्ना प्रसिद्धानां मते पक्षे मेघजी, इति नाना कोऽपि कश्चिदृषिः तन्मतवेषधारकः आस्ते विद्यते । किंभूतः । मेधाविना बुद्धिमतां पण्डितानां वा मध्ये मूर्धन्यो मुकुटायमानः प्रज्ञालचूडामणिः । क इव । मणिरिव । यथा इवार्थे । यथा अमेध्ये अशुचिस्थाने रत्नं मणिर्भवति ॥ .
ऋषिः कुअरजीनामा तं लुम्पाकमतप्रभुः ।।
पल्लीपतिर्यथा वङ्कचूलं निजपदे व्यधात् ॥ १०६ ॥ लुम्पाकानां मतस्य प्रभुः खामी भारवाही कुअरजीनामा ऋषिः लुम्पाकवेषभूतं मेघजीऋषि निजपदे स्वस्थाने व्यधात्स्थापयति स्म । यथा इवाथें । क इव । पल्लीपतिरिव । यथा पल्लीपतिः चित्रातीवान्यायकारित्वात्कुपितेन व देशात्प्रवासितं खपढ़ीप्राप्त नितरां कुरानीतिकारकत्वेन स्वस्थानोचितं पुत्राभावाद्वकचूलं नाम गजपुत्रं निजपदे निधत्ते स्म । अथ वा रतिकलहकुपितपराङ्मुखभवनापरस्थानस्थचारिकार्थागततदहरङ्गस्पर्शनातिस्मरपरवशीभूतखवशाप्रार्थनाप्रक्रमनियूंढ निष्कलङ्कशीलवतदर्शनालादितकेशववसुधावासवः खपदे युवराजपदे स्थापितवान्वकचूलं नृपनन्दनम् ॥
सिद्धान्तानेष निध्यायन्कदाचित्तत्वचक्षुषा।'
प्रतिमामाहतीं चित्रवल्लीं चाप इवैक्षत ॥ १०७ ॥ एष मेघजीऋषिः कदाचित्कस्मिन्नपि प्रस्तावे । सिद्धान्तानां चाराङ्गाद्यङ्गोपपातिद्युपाङ्गप्रमुखानागमानिध्यायन् विलोकमानः सन् तत्वचक्षुषा शुद्धमनोनयनन कृत्वा अर्हतां तीर्थकृतामियमाहती तां भगवत्प्रतिमां ऐक्षत विलोकते स्म । क इव । चाष इव। यथा नीलचाषः चित्रवल्लीमीक्षते। किं कुर्वन् । ध्यायन् पश्यन् । कान् । आ सामस्त्येन गमो गमनमुपलक्षणादागमं गमागमौ येषु त आगमाः भूमीप्रदेशाः तान् । 'चित्रकवल्ली चाषः' इति सूत्रोकेः ॥
लुम्पाकानां मतात्तस्मादिव कारानिकेतनात् ।
निर्गन्तुं कामयामास स ततो मेघजीमुनिः ॥ १०८॥ ततो जिनप्रतिमाक्षरदर्शनानन्तरं स मेघजीमुनिस्तस्मालम्पाकमतानिर्गन्तुं निःसत् कामयामास काङ्क्षति स्म । कस्मा दिव । कारानिकेतनादिव । यथा. कश्चिजनः न्यायेन वा अन्यायेन न्यायेऽप्यन्यायीकृत्य वैरिबाहुल्यादिति न्यायात् । चारकं नृपा.