________________
९ सर्गः]
हीरसौभाग्यम् । ___३९९ तमीप्रियतमो मध्ये प्रत्यग्द्वीपवतीपतेः ।
जनिकर्तुर्निजस्येव मिलनाय समीयिवान् ॥ ३८ ॥ विभावरीप्राणवल्लभः विधुः प्रत्यग्द्वीपवतीपतेः पश्चिमदिक्संबन्धिनो निर्झरिणीनायकस्य समुद्रस्य प्रतीचीपाथोधेर्मध्ये समीयिवान् समांगच्छति स्म । उत्प्रेक्ष्यते-निज. स्यात्मन आत्मीयस्य वा जनिकर्तुः जन कस्य । यतः-'सागरान्मुनिविलोचनोदराद्यदयादजनि तेन किं द्विजः' इति नैषधे । मिलनाय पितृस्नेहातिरेकान्मिलनार्थमिव ॥
इतोऽभ्युदयते भानुरितश्चन्द्रोऽस्तमीयते ।
इदं किमप्यनीदृक्षमहो विलसितं विधेः ॥ ३९ ॥ ___ इतोऽस्मिन् पार्श्वे पूर्वस्या दिशि भानुः सहस्ररश्मिः अभ्युदयते अभ्युदयं प्राप्नोति । 'अय गतौ' भ्वादिः आत्मनेपदी च । तथा 'गच्छति विसर्पत्ययत्ययते' इत्यादिक्रियाः क्रियाकलापे । इतः प्रतीचीननीरनिधेमध्ये। पश्चिमायां दिशीत्यर्थः । चन्द्रो रजनीजीवितेश्वरः अस्तं क्षयं नाशमीयते लभते । 'ईङ् च गतौ' दिवादिरात्मनेपदी च । अहो इत्याश्चर्ये खेदे वा । किमप्यपूर्वमनीदृशं विद्वद्भिरपि वक्तुमशक्यं वचनगोचरावीतं विधेर्देवस्य विलसितं विजृम्भितं दृश्यते ॥ इति चन्द्रमसोऽस्तमयनम् ॥ - दत्त्वोदयं त्वमेवास्तं कथं दत्से प्रियस्य नः ।
- तारका इत्युपालब्धुं भेजुरस्ताचलं किमु ॥ ४० ॥ तारका अर्थादश्विन्वादिनक्षत्राणि दाक्षायिण्यः सर्वाः शशिप्रियाः । हेमाचार्येण नामसु कश्चिद्विशेषः प्रोक्तो नास्ति । किं च 'भकनी निकयोस्तारा, तारा शब्दो भे नक्षत्रे कनी निकायां च । तारा एव तारका नक्षत्राणि' इति लिङ्गानुशासने । चन्द्रकरा अस्ताचलं प्र. तीचीपृथ्वीधरं भेजुराश्रिताः । उत्प्रेक्ष्यते-इत्यमुना प्रकारेण उपालव्धुमुपालम्भं प्रदातुमिव । इति किम् । हे चरमारे, नोऽम्माकं तारकाणां प्रियस्य प्राणनाथस्य निशीथीनीनायकस्य त्वमेव भवानेव उदयमुद्गममैश्वर्यं वा दत्त्वा वितीर्य प्रतिपद्वितीययोस्तिध्योरस्ताचले चन्द्रोदयदर्शनात् । तस्माद्विधोरस्तादिरेवोदयाचलः । तथा प्रातर्वर्णनेऽप्युदयनाचार्येणापि प्रोक्तं यथा-'उदयगिरिकुरङ्गीशृङ्गकण्ड्यनेन खपिति सुखमि. दानीमन्तरेन्दोः कुरङ्गः' इति । प्रतिपच्चन्द्रोदयदर्शनं प्रायः सुरभिणामेव । यदुक्तम्'प्रतिपच्चन्द्रं सुरभी नकुलो नकुली पयश्च कलहंसः । चित्रकवल्लीं चाषः सूक्ष्मं धर्म सुधीवृत्ति ॥' इति । पुनस्त्वमेवास्तमस्तमयनं क्षयं च कथं दत्से ददासि ॥
नक्षत्रपद्धतेः प्रातभ्रंश्यन्तोऽम्बुधरादिव ।
क्षणाद्विलयमासेदुस्तारकाः करका इव ॥ ४१॥ तारका प्रहनक्षत्रताराः प्रातः प्रभातसमये करका धनोपला इव क्षणानिमेषमात्रा. द्विलयं क्षयमासेदुः प्राप्नुवन्ति स्म । के कुर्वन्तः । नक्षत्रपद्धतेराकाशात् । 'अभ्रं मु