SearchBrowseAboutContactDonate
Page Preview
Page 455
Loading...
Download File
Download File
Page Text
________________ ३९४ काव्यमाला। दयप्रापयित्रीव जिनस्य श्रीमन्महावीरभगवतः पट्टानां परम्परा श्रेणी मेरुभूरिव स्वणाचलमेदिनीव भाति विभाति । येन कारणेन अस्यां जिनपट्टपरम्परायां मेरुमेदिनीध. रवनभूमौ च खईमाः कल्पवृक्षा इव सूरीन्द्राः समुद्भवन्ति प्रकटीभवन्ति ॥ अर्हन्मतैकमलयोद्भूतसूरीन्द्रचन्दनैः । यशःप्रसृमरामोदैः सुरभीक्रियते जगत् ॥ २१ ॥ अर्हन्मतं श्रीमजिनशासनं तदेकमलयो दक्षिणाचलस्तत्रोद्धृताः प्रादुर्भावं प्राप्ताः पट्टधुरीणभावं लम्भिता ये सूरीन्द्रा आचार्यास्त एव चन्दनाः श्रीखण्डशाखिनस्तैः क. र्तृभिर्यशांसि कीर्तय एव प्रसृमरा दशदिक्षु विस्तरणशीला ये आमोदाः परिमलास्तैः कृत्वा जगदखिलमपि भुवनं सुरभीक्रियते । सुगन्धं विधीयते इत्यर्थः ॥ इत्यन्तरुदयत्प्रीतिमेकलाद्रिकनीप्लवे । निचिखेल चिरं गन्धसिन्धुरेन्द्र इव प्रभुः ॥ २२ ॥ . प्रभुः सूरिः इत्यमुना प्रकारेण अन्तश्चेतसि उदयन्ती प्रकटीभवन्ती या प्रीतिः प्र. मोदः । 'प्रीतिः स्मरस्त्रियां प्रेम्णि योगमुदोः' इत्यनेकार्थः । सैव मेकलनामा अद्रिः प. र्वतविशेषस्तस्य कनी कन्या पुत्री । नर्मदा नदीत्यर्थः । तस्याः प्लवे पानीयपूरे । 'नर्मदा मेकलाद्रिजा' इति हैम्याम् । तथा 'समुत्तीर्य भगवती मेकलकन्याम्' इति चम्पूकथायाम् । चिरं बह्रीं वेला यावन्निचिखेल क्रीडति स्म । क इव । गन्धसिन्धुरेन्द्र इव । यथा कपोलपालीप्रमुखसप्तस्रोतोनिःसरन्मदाम्भःप्रवाहाघ्राणमात्रपलायितापरसिन्धुरधोरणीबन्धुरगन्धोपलक्षितसिन्धुरेन्द्रो मेकलशैलनन्दिन्या नर्मदाया: पयःप्रवाहे निरं स्वेच्छापूरणपर्यन्तं खेलति ॥ इति गुरोर्हृदये विमर्शः ।। लोकान्कोकानिवाह्लादं लम्भयन्भानुमानिव । दानलीलायितैलां कल्पयन्कल्पभूरुहाम् ॥ २३ ॥ प्रबोधं विदधत्प्रातरिवाशेषजनुष्मताम् । पुष्पकाल इवोल्लासं प्रणयन्सुमनःश्रियाम् ॥ २४ ॥ . त्वं चिरं नन्द सूरीन्द्रेत्यभिनोनूय निर्जरी। ततम्तच्चरणाम्भोज भ्रमरीव चुचुम्ब सा ॥ २५ ॥ ततोऽनन्तरं सा निर्जरी शासनदानवद्विषत्रस्यत्पृषती विलोचना भ्रमरी भृङ्गाङ्गनेव तचरणाम्भोज प्रभुपादारविन्दं चुचुम्ब चुम्बति स्म । नमस्करोति स्मेत्यर्थः । किं कृत्वा । इत्यमुना प्रकारेण पुरोऽत्रैवानुष्टुभां बिके वक्ष्यगाणप्रकारेण अभिनोनूयातिशयेन स्तुति निर्माय । इति किम् । हे सूरीन्द्र हे आचार्यपर्जन्य, त्वं चिरं गलितावधिसमयं नन्द जयवान् प्रवर्तख पर्वतायुष्कवान् भवतात् । टुनदि समृद्धौ' अस्य धातोः प्रयोगत्वात् । ज्ञानदर्शनचारित्रादिकां समृद्धिं लभस्व वा जीया वा । त्वं किं कुर्वन् । लोकान् जग
SR No.002262
Book TitleHeer Saubhagya Mahakavyam
Original Sutra AuthorN/A
AuthorDevvimal Gani, Shivdatta Pandit, Kashinath Sharma
PublisherKalandri Jain S M Sangh
Publication Year1985
Total Pages980
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy