________________
९ सर्गः] हीरसौभाग्यम् ।
३९३ ' हे हीरविजयसूरे, त्वयास्मिन् जयविमलप्रज्ञाने पधुयें गणभारधुरीणे निर्मिते कृते काप्यद्भुतवैभवा जगदाश्चर्यकारेणी शासनस्य श्रीजिनमतस्योन्नतिर्भाविनी भ. वित्री । केनेव । राज्ञेव । यथा भूमीपतिना जिते प्रबलबले युवराजे पधुर्ये निजराज्यधुराधुरंधरे विहिते सति शासनानामुपलक्षणात् पुरमगरग्रामजनपदानां न्यायविधि विदधति सति समुन्नतिर्भवति। 'दीयतां दशलक्षानि शासनानि चतुर्दश' इति दिकमार्कदानपत्रे श्लोकः । अथवा शासनस्याज्ञायाः काप्यद्वैता उन्नतिर्जायते । कोऽध्याझा नो. लक्यतीत्यर्थः ॥
विक्रमार्क इव श्रीमत्सिद्धसेनदिवाकरात् ।
त्वत्तस्तदनु कोऽप्युर्वीबध्नो बोधिमवाप्स्यति ॥ १७ ॥ . हे देव, तस्य जयविमलस्य पदृस्थापनानन्तरं त्वत्तः श्रीमत्सकाशात् कोऽप्यद्भुत. वैभवः । उवीं पृथिवी तस्यां प्रबलप्रतापैः बध्न इव नः सहस्रकिरणसदृशो महामण्डलोकमहीपतिर्बोधिं समत्वमवाप्स्यति लप्स्यते । क इव । विक्रमार्क इव । यथा श्री. मतः पूर्वादिज्ञानातिशायिगुणैः कलिकालसर्वज्ञ इति विरुद्धधारणासाधारणलक्ष्मीवतः सिद्धसेन दिवाकराद्विक्रमादित्यनृपो बोधिबीजमवाप्तवान् ॥ इति देवतया पट्टधुरंधरकथनम् ॥ .... समाकर्ण्य सुरीवर्ण्यमानं तं पिप्रिये प्रभुः ।
रथाङ्गवृन्निशावेदिगदिताभ्युदयं रविम् ॥ १८ ॥ प्रभुः सूरीन्द्रः सुर्या शासनदेवसया वर्ण्यमानं श्लाध्यमानं तं जयविमलनामानं प्रज्ञांशं समाकर्ण्य श्रवणगोचरीकृत्य पिप्रिये निजपट्टाभ्युदयविभावनाभिप्रायेण हृदये परमां प्रीतिं प्राप्तवान् । 'प्रीङ् प्रीतो' । जहरेत्यर्थः । किंवत् । रथाङ्गवत् । यथा चक्रवाकः निशावेदिभिस्ताम्रचूडैर्गदितो निवेदितोऽभ्युदय उद्गमनसमयो यस्य तादृशं रविं दिवाकरं प्रीयते नियाभिः परस्परवियोगापगमाशया हृष्यति ॥
इत्यतयंत तेनान्तर्भाग्यसौभाग्यभूरसौ ।
प्रणुन्नयेव पुण्यैयेत्रिदश्यापि प्रशस्यते ॥ १९ ॥ तेन सूरिणा अन्तर्मनोमध्ये इत्यमुना वक्ष्यमाणप्रकारेण अतयंत विचार्यते स्म । इति किम् । यदसौ मद्विनेयो जयविमलाभिधानविबुधः भाग्यं भागधेयं पुण्यं तथा सौभाग्यं सुभगतां लोके विख्यातिर्वा तयोर्भूः स्थानं वर्तते यद्यस्मात्कारणात् त्रिदश्या जिनशासनवृन्दारिकयापि प्रशस्यते । उत्प्रेक्ष्यते--पुण्यैरर्थात्तत्सुकृतैः प्रणुनया प्रेरितयेव ।।
मेरुभूरिव भात्येषा जिनपट्टपरम्परा ।
समुद्भवन्ति येनास्यां सूरीन्द्राः स्वर्दुमा इव ॥२०॥ एषा निःशेषगणधरधोरणी तरुणीचूडागणीभूता अभ्युदिता अभ्युदीयमाना अभ्यु