SearchBrowseAboutContactDonate
Page Preview
Page 447
Loading...
Download File
Download File
Page Text
________________ ३८१ काव्यमाला। सीमन्तः स्यादेवेति । स देवीसीमन्तो यूनां वयःस्थाना तरुणानां मनांसि सस्मरविकारचेतांसि उन्मादयामास । 'उन्मादश्चित्तविप्लवः' । तयुक्तानि कृतवानित्यर्थः । उत्प्रे क्ष्यवे-अवरोधैरन्तःपुरपुरंध्रीभिः रतिप्रीतिनाग्यौ द्वे पत्न्यौ प्रसिद्ध स्तः, परमन्या अपि भाविन्यः एवमवसीयते कविसमयानुसारेण । यदुक्कं नैषधे--'सखीशतानां सर. सैर्विलासैः स्मरावरोधभ्रममावहन्ती । विलोकयामास सभां स भैम्याः' इति । चरतः अत्र देवीशिरसि संचरतः सतः अनगरङ्गाभिधाने शास्त्रे प्रोक्तमस्ति यत्पश्चदशसु ति. थिषु स्त्रीणां पञ्चदशसु शिरःप्रभृतिषु स्थानकेषु स्मरः संचरति इति । स्मरस्य कामस्य व्यकीभवन्ती प्रकटा जायमाना एषा केशवर्मलक्षणा पदवी मार्ग इव । यतो धनजलसंचारेण अमार्गो मार्गः स्यादिति प्रत्यक्षं लक्ष्यते ॥ . प्रेक्ष्य स्वदाहे ज्वलितास्त्रमालां जेयं कथं विश्वमिदं मयेति । पितामहोऽदान्मदनस्य तस्याः सीमन्तदण्डं विमनायितस्य ॥ १६३ ॥ पितामहो ब्रह्मा पितुः पिता च इत्यमुना प्रकारेण विमनायितस्य विरुद्धमना इवाच. रितस्य विमनस्कीभूतस्य मदनस्य । उत्प्रेक्ष्यते-तस्या मन्युभुमा निन्याः सीमन्तमेव दण्डं प्रतिभटकोटिकटकाप्रतिहतिप्रचण्डदण्डरत्नमदादिव पौत्रं प्रेम्णा प्रदत्तवानिव । इति किम् । खदेहदाहे शंभुना कोपानलेनात्मशरीरभस्मीकरणसमये ज्वलितां दग्यां भ. सितीभूतामस्त्रमाला प्रहरणपटली प्रेक्ष्य निणीय । अथो भस्मीभूताशेषास्त्रसंघातेन मया विजयिना मदनेन विश्वं त्रिभुवनं कथं केन प्रकारेण जेयं जेतव्यं पराभवनीयं वशीकर्तव्यं वा इति ॥ सिन्दूरपूरप्रचितेन तस्याः सीमन्तदण्डेन शिरोरुहाली ।' विद्युद्विलासेन पयःप्रपूर्णा पयोमुचां पतिरिव व्यराजत् ॥ १६४ ॥ पूरशब्दोऽत्र लक्षणया समूहवाची । सिन्दूरपूरेण शृङ्गारभूषणगणेन प्रचितेन व्याप्तेन । सिन्दूरपूरितेनेत्यर्थः । सीमन्तदण्डेन कृत्वा तस्या देवतायाः शिरोरुहाली कचच्छटा व्यराजद्भाति स्म । का केनेव । पतिर्विद्युद्विलासेन । यद्वा पयोभिः पानीयैः प्रपूर्णानां निर्भरं भृतानां पयोमुचा वर्षन्मेघानां मालिका तडिद्विलसितेन कृत्वा विद्युद्विजृम्भितेन कृत्वा विराजते ॥ इति सीमन्तः ॥ प्रफुल्लमल्लीकुसुमावनद्धयत्केशपाशः स्फुरयांबभूव । अपूजि पुष्पैरिव चामरादिद्विषज्जयस्यावसरे दिगीशैः ॥ १६५॥ प्रफुल्लविकसितैर्मल्लया मल्लिकाया विचकिलस्य । 'मल्लीभिः प्रतिमल्लीभावं दधती वि. भाति भावत्की' इति राजवर्णने । कुसुमैः पुष्पैरवनद्धो प्रथितो यस्यां मरुत्सीमन्तिन्यां के. शपाशः स्फुरयांबभूव विभ्राजते स्म । अत्र खार्थे ञिः केवलार्थकथयित्री । उत्प्रेक्ष्यतेचामरादीनाम् । आदिशब्दात्कलापिकलापविधुतदक्षपाणानां ग्रहः । द्विषतां परस्परस्पर्धा
SR No.002262
Book TitleHeer Saubhagya Mahakavyam
Original Sutra AuthorN/A
AuthorDevvimal Gani, Shivdatta Pandit, Kashinath Sharma
PublisherKalandri Jain S M Sangh
Publication Year1985
Total Pages980
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy