SearchBrowseAboutContactDonate
Page Preview
Page 445
Loading...
Download File
Download File
Page Text
________________ काव्यमाला। पन कमलं भ्रमन्तो मधुपानकृते समेत्य लोलुभतयेतस्ततो भ्राम्यन्तो ये भृशा भ्र. मरास्तेषां गणस्य समुदायस्य कणेन गुआरवेण कृत्वा । उत्प्रेक्ष्यते-एतस्य खबन्धो. सूर्यस्य पुरोऽप्रे स्वमात्मीयं निर्वेदं पराभवोद्भूतभूयस्वरखेदं निजावमाननादुःखं वा आवेदयते कथयतीव । किं कृत्वा । बन्धोः खमित्रस्य । अब्जबन्धोररविन्दसुहृदो भानोः फरकोडे हस्तोत्सङ्गे एत्यागत्य । 'चक्राब्जाहर्बान्धवः सप्तसप्तिः', तथा 'मित्रो ध्वान्तारातिरन्जांशुहस्तः' इतीदं द्वयमपि हैम्याम् । तथा 'स्फुटारविन्दाङ्कितपाणिपङ्कजम्' इति नैषधे । किंभूत पद्मम् । यस्या देव्या आननस्य खपरिस्पर्धिपराभावुकंवैभववदनस्य श्रिया शोभया जितं पराभूतम् ॥ वकं त्रिदश्या विजितात्मदर्शनिशामणि प्रेक्ष्य हिरण्यगर्भः । सृष्टि सिसक्षुः किमदोनुरूपां विनिर्मिमीतेऽम्बुजहस्तलेखम् ॥ १५७ ॥ हिरण्यगर्भो ब्रह्मा अम्बुजैः सकलकमलकलापैः कृत्वा हस्तलेखम् 'हस्तोलक' इति प्रसिद्धम् । विनिर्मिमीते कुरुते । उत्प्रेक्ष्यते-अदोनुरूपाम् अस्या गीर्वाणगृहिणीवदनार.. विन्दसदृशीम् । 'अदःसमित्संमुखवैरियौवतश्रुटद्भुजा कम्युमृणालहारिणी' इति नैषधे समासान्तोऽदस्शब्दः । सृष्टिं रचनो सिम्रक्षुः स्रष्टुमिच्छुः क कालनिव । किं कृत्वा । विजिताः खवैभवाभिभूता आत्मदर्शा दर्पणा निशामणयश्चन्द्रमसो येन तादृशं त्रिदश्याः शासनसुररमण्या वकं वदनं प्रेक्ष्य दृष्ट्वा । वकशब्दः पुनपुंसकलिङ्गयोः । 'नेत्रं वकपवित्रपत्रसमरोशीरान्धकारावरः' इति लिशानुशासने ॥ मन्ये कुमुद्वन्धुरिदंमृगाङ्कमुखीमुखीभूय सुखी बभूव । नियन्य यत्तेन तमः खदस्युः प्राक्षेपि पृष्ठे स्फुटकेशंकायः ॥ १५८॥ अहं अन्यकृदेवममुना प्रकारेण मन्ये विचारयामि । यत्कुमुद्वन्धुः कैरवसुहृच्चन्द्रमाः इदंमृगाकमुखीमुखीभूय इयं चासौ मृगाङ्कमुखी च कौमुदीदयितवदना च तस्या मुखी. भूय वदनभावं प्रतिपद्य । 'इदं नृपप्रार्थिभिरुज्झितोऽर्थिभिः' इति नैषधे । अत्रेदंशब्दः समासान्तः । सुखी बभूव सातवान् निश्चिन्तो वा संजातः । यद्यस्मात्कारणात् स्फुट: प्रकटो दृश्यमानत्वात्केशा एव देवीशिरश्चिकुरा एव कायो देहो यस्य तादृशः । स्वदस्युनिजप्रत्यनीकस्तमोविधुतुदः नियलय बद्धा पृष्टे खपृष्ठप्रदेशे प्राक्षेपि प्रक्षिप्तः । धम्मि. लस्य विधुतुदोपमानत्वं काव्यकल्पलतायाम् । 'धम्मिल्लः संयताः केशाः' इति हैम्याम् । एतदेव महत्सुखम् । यत्स्वद्विषन्नभिभूय नियच्य रक्ष्यते ॥ इति देवीवदनम् ।। अहो महीयान्महिमा सुपर्वसारङ्गचक्षुश्चिकुरच्छटायाः। मिर्जित्य यस्मात्पशुनापि पश्चादचीकरद्या चमरान्प्रतीपान् ॥ ११९ ॥ __ अहो इत्याश्चर्ये । यथा नैषधे- 'अहो अहोभिर्महिमा हिमागमेऽप्यभिप्रपेदे प्रथितो स्मरार्दिताम्' । सुपर्वसारङ्गचक्षुषः सुरहरिणेक्षणायाः शासनदेव्याः चिकुरच्छटाया:- कु.
SR No.002262
Book TitleHeer Saubhagya Mahakavyam
Original Sutra AuthorN/A
AuthorDevvimal Gani, Shivdatta Pandit, Kashinath Sharma
PublisherKalandri Jain S M Sangh
Publication Year1985
Total Pages980
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy