SearchBrowseAboutContactDonate
Page Preview
Page 444
Loading...
Download File
Download File
Page Text
________________ ८ सर्गः] . हीरसौभाग्यम् । अधृष्यमन्विष्य यदीयभालं निजं प्रति स्पर्धितया जिगीषत् । अर्धामृतांशुः प्रपलाय्य पूषद्विषो जटाजूट इव प्रविष्टः ॥ १५३ ॥ अर्धामृतांशुः सामिसोमः प्रपलाय्य भयात्प्रणश्य । उत्प्रेक्ष्यते-पूषद्विषः पूषनानो दानवेन्द्रस्य व्यापादकस्य शंभोर्जटाजूटे विकटकपर्दे प्रविष्ट इव निलीय तस्थिवानिव । कि कृत्वा । स्पर्धितया स्पर्धनशीलत्वेन निजमात्मानम् । निजशब्देन काप्यात्माप्युच्यते । यथा नैषधे-'श्रुत्वा निजं भीमजया निरस्तम्' इति । जिगीषत् जेतुमिच्छपराभवितुं महिमानं तादृशं तदीयभालं देवललनाललाटमेवाधृष्य मनाक् कलनीयम् कथमप्यभिभवितुमशक्यं द्वेष्यं वैरिणमन्विष्य निरीक्ष्य ॥ • अद्वैतलक्ष्मीकमवेक्ष्य यस्या भालं तदीयश्रियमीहमानः। विश्वंभरस्येव पदे लगित्वा तां मार्गयत्यर्भ इवार्धचन्द्रः ॥ १५४ ॥ अर्धचन्द्रः अष्टमीतमीप्रियतमः विश्वं भुवनमभीप्सितप्रदानेन पुष्णाति पुष्टं कुरुते । 'भृत् धारणपोषणयोः' अस्य धातोः प्रयोगः । विभर्ति रक्षति प्रत्यूहव्यूहापहरणेन वा इति विश्वंभरः कृष्णः तस्य पदे चरणे विष्णुपदे लगित्वा विलग्य समाश्लिष्य । उत्प्रेक्ष्यतेतां विबुधवधूललाटलक्ष्मी मार्गयतीव याचतीव । 'अर्दति मार्गति मार्गयति याचति याचतेऽर्थनार्थाः स्युः' इति क्रियाकलापे । क इव । अर्भ इव । यथा बालकः पितुः पदं विलग्य याचते । किं कुर्वाणः । तदीयां सुधाशनवधूगोधिसंबन्धिनीं श्रियं लक्ष्मीमीहमानः कान् । किं कृत्वा । यस्याः शासनसुमनःसुन्दर्या अद्वैतं न विद्यते द्वैतं युगल मेतत्सदृशमपर वस्तु यस्याः सा तादृशी लक्ष्मीः सुषमा यस्य । खार्थे कः । अद्वैतल. क्ष्मीकमसाधारणवैभवं भालमलीकमवेक्ष्य व्यालोक्य ॥ यद्भाललक्ष्म्याधरितोऽर्धचन्द्रस्तत्साम्यमिच्छन्वरुणालयस्थाम् । अभीष्टदां कामदुधां प्रतीचीमस्तच्छलाद्याति किमारिरात्सुः ॥१५॥ यस्या भालस्यालिकस्य लक्षम्या विभूषयाधरितो हीनीकृतो धिक्कारभावं लम्भितो. ऽर्धचन्द्रः सामिकुमुदिनीदयितः प्रतीची पश्चिमां दिशमाशामस्तच्छलात्कपटात् याति गच्छति । उत्प्रेक्ष्यते-तत्साम्यं तस्य अप्सरोललाटस्य लक्ष्म्याः शोभायाः साम्यं सादृश्यमिच्छन् मनसि वाञ्छन् सन् वरुणस्य पश्चिमदिक्पतेरालये गृहे तिष्ठतीति तां वरुणवेश्मनिवासिनीमित्यर्थः । तथा अभीष्टमभिलषितं जनमनःकामितं ददातीति तादृशं कामं मनोरथं दोग्धि प्रपूरयतीति कामदुधा । 'दुह प्रपूरणे' अयं धातुः । तो कामधेनुमारिरात्सुः आराधयितुमिच्छुरिव । 'हविषे दीर्घसत्रस्य सा चेदानी प्रचेतसः । भुजङ्गपिहितद्वारं पातालमधितिष्ठति ॥' इति रघुवंशे । तथा 'क्रतोः कृते जाप्रति वेत्ति कः कति प्रभोरपां वेश्मनि कामधेनवः' इति नैषधेऽपि ॥ इति देवीललाटस्थलम् ॥ यदाननश्रीजितमजबन्धोः पद्मं करकोड इवैत्य बन्धोः । निवेदमावेदयते स्वमेतत्पुरो भ्रमभृङ्गगणकणेन ॥ १५६ ॥
SR No.002262
Book TitleHeer Saubhagya Mahakavyam
Original Sutra AuthorN/A
AuthorDevvimal Gani, Shivdatta Pandit, Kashinath Sharma
PublisherKalandri Jain S M Sangh
Publication Year1985
Total Pages980
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy