________________
८ सर्गः] हीरसौभाग्यम् ।
३६१ भूता । पार्श्वद्वयमुभयतटयुगलं समीपद्वन् वा । 'कक्षाधःप्रदेशद्वितयं पार्श्वमन्तिके । कक्षाधोऽवयवे वकोपायपर्युसमूहयोः ॥' इत्यनेकार्थः । तत्रोद्भूतौ उद्गती भुजारूपी बाहु. मूत्रों मृणाल्यौ कमलनाले यस्याम् । 'शुङ्गोऽथलिञ्जभुजशाटसटाः सपाटः' इति लिङ्गानुशासने । भुजः । भुजाशब्दः पुंस्त्रीलिङ्गयोः। पुनः किंभूता । उच्चावुन्नती कुचावेवान्तरीपे अन्तर्जले तटे यस्याम् । पुनः किंभूता । दृशावेव भृङ्गो पदचरणी यत्र तादृशं मुखं वदनमेवारविन्दं कमलं यस्याम् । उत्प्रेक्ष्यते-जम्बूनदीव ॥ इति भुजा ॥ , भुजान्तरानुत्तरराजधान्या अभ्यर्णभूमौ रतिजानिभर्तुः ।
किमु स्फुरच्चन्दनचारिमश्रीक्रीडाद्रिकूटौ लसतस्तदंसौ ॥ ८४ ॥
तस्या देव्या अंसौ स्कन्धी लसतः शोभां लभेते । उत्प्रेक्ष्यते-रतिरेव जाया यस्य स रतिजानिः कंदर्पदेवः स एव भर्ता त्रिभुवनं विभीति सुरासुरोरगनराणां तदाज्ञावशंवदीभूतत्वेन । अयं वा हास्यविविधविनोदविलाससंयोगभोगादिभिर्जगजनान्बिभर्ति पुष्णातीति । 'डुभृञ् धारणपोषणयोः' अयं धातुः । ततः......"खामी श्रीनन्दनरा. जाधिराजस्तस्य स्फुरन्ती परमोत्कर्षमुद्वहन्ती चन्दनस्य मलयद्रुमद्रवस्य गोशीर्षशाखिनो वा पत्रवल्लीविचित्रचित्ररचनाविलेपनादेः सुरभिपर्णश्रेणिपरिमलादेवी चन्दनतरौ पुष्पफलानामसंभवः । यदुक्तम्-'यद्यपि चन्दनविटपी विधिना फलपुष्पवर्जितो वि. हितः । निजवपुषैव परेषां तथापि संतापमपनयति ॥' इति वचनात्पत्राणां संभवो दृश्यते । तथा. चम्पूकथायाम्-'नागरुचिताश्रन्दनपत्रभङ्गा भवद्वैरिवधूवदनेवनेव' । 'किलक्षणे नागरुणा काकतुण्डेन चिता व्याप्ता सहिताश्चन्दनद्रवस्य पत्रवल्लयो भान्ति । तथा नागानां भुजंगमानां रुचिता ईप्सिता चन्दनद्रुमाणां पत्राणां पर्णानां भङ्गाः शकलानि भान्ति' इति चम्पूटिप्पणकम् । चारिमायाः सुगन्धिताया: श्रीः शोभा ययोः तादृशी क्रीडादेः केलि. शैलस्य कूटी शिखरे इव कूटे इव । कुत्र । भुजान्तरं देवीहृदयं तदेवानुत्तरा न विद्यते वैशिध्येण लक्ष्म्या वा उत्तरः अग्रेतनवी पदार्थो यस्याः सासाधारणा राजधानी स्मरराजनिवसनस्थाननगरं तस्या अभ्यर्णभूमौ समीपप्रदेशे । राजधान्याः संनिधी क्रीडावननदीवापीपर्वतादयो भवन्ति । तत्र प्रियासखा नृपादयः खैर क्रीडन्तीति रीतिः ॥
स्वःसुभ्रवः प्रेक्ष्य पयोधरौ स्वसंस्पर्धिनौ तुङ्गिमविभ्रमेण । जयाय तयुद्धविधित्सयेव कुम्भौ समेतौ स्फुरतस्तदंसौ ॥ ८५ ॥
खःसुभ्रवः सुराङ्गनायास्तस्याः अंसौ स्कन्धौ स्फुरतः । उत्प्रेक्ष्यते-जयाय प्रतिपक्षपराभवकृते स्वयं तयुद्धविधित्सया ताभ्यां स्तनाभ्यां सार्धे युद्धस्य संग्रामस्य विधित्सया चिकीर्षया विधातुमिच्छया समेतावागतौ कुम्भौ कलशाविव । किं कृत्वा । तुङ्गिन्न उच्चताया विभ्रमेण लक्ष्म्या कृत्वा खाभ्यां घटात्मभ्यो साध स्पर्धेते इत्येवंशीली। ख:सुभ्रवः पयोधरौ चौ प्रेक्ष्य दृग्गोचरीकृत्य ॥ इति स्कन्धौ ॥