SearchBrowseAboutContactDonate
Page Preview
Page 420
Loading...
Download File
Download File
Page Text
________________ ८ सर्गः] हीरसौभाग्यम् । ३५९ दडलीभूयं देवीकरशाखाभाव इवापे प्राप्तः । दुमप्रवालीस्तीनं तपस्तप्त्वा यदङ्गुलीबभूव इत्यर्थः ॥ सुपर्वपारिप्लवलोचनायाः श्रियं दधौ धौरषिरङ्गुलीनाम् । विजृम्भमाणारुणपाणिपङ्केरुहे प्ररूढा दलमालिकेव ॥ ७७ ॥ सुधाशनस्य पारिप्लवलोचना चञ्चलाक्षी। 'चञ्चलं चपलं लोलं चलं पारिलवास्थिरे' इति हैम्याम् । तस्या अहुलीनां करशाखानां धौरणि: श्रेणी श्रियं शोभा दधौ श्रयते स्म । उत्प्रेक्ष्यते-विजृम्भमाणं दिनाकरकरनिकरसंपर्काद्विकाशमाश्रयमाणं निर्निद्रीभवत्तथा अरुणं रक्तं यत्पाणिरेव पङ्केरुहं करकोकनदं तत्र प्ररूढोद्गता दलमालिकेव पा. उलिमशालिनी पत्रपतिरिव ॥ इति कराकुल्यः ॥ अजय्ययत्पाणिपयोरुहाभ्यां सहाहवे संस्रवदस्रपूरैः । शोणीभवद्भिः कमलैरवापेऽरुणाम्बुजख्यातिरिव क्षमायाम् ॥ ७८ ॥ अजय्ये केनापि प्रतिपक्षेन पक्षलक्षवैभवाभ्यां जेतुमशक्ये यस्या देव्याः पाणिपयोरुहे करकमले ताभ्यां सह सार्धमाहवे गहासंग्रामे क्रियमाणे सति स्रवन्तः प्रत्यर्थिप्रगल्भप्रहरणप्रहारैः शरीरेभ्यो निःसरन्तो येऽत्राणां रुधिराणां पूराः प्रवाहास्तैः कृत्वा शोणीभवद्भिः सर्वाङ्गेष्वपि शोणमयैरिव जायमानै रक्ततां प्राप्नुवद्भिश्च कमलैः । उत्प्रेक्ष्यतेएतानि सर्वाणि अरुणाम्बुजानीति ख्यातिः कोकनदानीति प्रसिद्धिरवापे प्रामेव ॥ आबालमुधद्वलयः शिखाश्चाङ्गुल्यः पुनयेत्र नखाः सुमानि । ज्योतिर्मरन्दानि करद्रुमोऽस्या यूनां मनोभृङ्गगणं धिनोति ॥ ७९ ॥ • अस्या देव्याः । यत्तदोनिंत्यसंबन्धादसतोरपि यत्तदोमध्ये एको गृह्यते । स प्रसिद्धो. जिनभक्तानां सिद्धिविधायी करः पाणिः स एव द्वमस्ताः कर्ता । यूनां तरुण जनानां मनांसि चित्तानि एव भृङ्गा भ्रमरास्तेषां गणं धिनोति प्रीणयति । 'विधि प्रीणने' इदित्त्वानुम् । 'धिन्विकृण्वोरश्च' आभ्यामुग्रत्ययः म्यादकारान्तादेशश्च स्यात्कर्तरि सार्वधातुके । उप्रत्ययस्याशित्त्वादलोपः। अलोपस्य स्थानिवत्त्वानोपधागुणः । धिनोतीति सिद्धम् । यत्र करद्रुमे उद्यन्प्रकटीभवन्दीप्यमानो वा वलयः कटकः । 'पूजाजन्यप्रमयसमया राजसूयो हिरण्यारण्ये संख्यं मलयवलयौ वाजपेयः कषायः' इति लिङ्गानुशासने पुंक्तीवलिङ्गे । आबाल: स्थानकम् । च पुनर्यत्र पाणियादपे अमुल्यः करशासाः एव शिखाः शाखाः । पुनर्यत्र ज्योतीष्येव निःसरत्कान्तय एव मरन्दा मधूनि येषु तादृशानि नखा: कामाशा एव सुमानि पुष्पाणि वर्तन्ते ॥ इति पाणिः ॥ मृणालिकाभिर्जलदुर्गभाग्भिरपि स्वजैत्री प्रविभाव्य वाहान् । खसूनुपद्मः प्रहितः किमेतदुपास्तये पाणिरराजदस्याः ॥ ८० ॥ अस्या देवतायाः पाणिः करः अराजत् दीप्यते स्म । उत्प्रेक्ष्यते-जलं पानोयमेव
SR No.002262
Book TitleHeer Saubhagya Mahakavyam
Original Sutra AuthorN/A
AuthorDevvimal Gani, Shivdatta Pandit, Kashinath Sharma
PublisherKalandri Jain S M Sangh
Publication Year1985
Total Pages980
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy