________________
८ सर्गः]
हीरसौभाग्यम् ।
यथा नैषधे-'उरोभुवा कुम्भयुगेन जम्भितं नवोपहारेण वयः कृतेन किम् । 'यौवनेन कृतेन नवीनोपयानेन स्तनकलशद्वन्द्वेन' इति तद्वत्तिः । नीलं नीलवर्ण सूत्रमदायि । दवरिकेव दत्ता 'दोरी' इति प्रसिद्धा । यः पदार्थों वर्धयितुं काश्ते तत्र प्रथमं दवारेकासूत्रं दीयते इति सूत्रकृच्छिल्पे प्रसिद्धम् ॥ इति रोमराजी ॥
यस्याः स्तनौ संस्फुरतः सचित्तनिवासिमीनाकमहीधनस्य ।
विलासवत्योरिव शातकुम्भासंदृब्धलीलालयतुङ्गशृङ्गौ ॥ १५ ॥ . यस्या अमायाः स्तनी पयोधरी संस्फुरतः विलसतः । उत्प्रेक्ष्यते-चित्ते अर्थादेवीहृदये निवसनशीलस्य मीनो मत्स्योऽश्चिई यस्य स मकरध्वजः स्मरः । 'निषधवसुधामाजाकस्य प्रियाङ्कमुपेयुषः' इति नैषधे । स एव मही भूमिरेव धनं यस्य एतावता राजा तस्य मदननृपस्य विलासवत्यो रतिप्रीतिनान्योर्नितम्बिन्योः शातकुम्भेन सुवर्णेन संदृब्धौ निर्मिती घटितौ वा । हिरण्मयावित्यर्थः । लीलालययोः क्रीडामन्दिरयोस्तुगावत्युन्नतौ शृङ्गी शिखरें इव । 'नखयुगमधिकाङ्गः संयुगः पद्मरागो भगयुगमघटंगोद्योगशृङ्गा निदाघः' इति लिङ्गानुशासने पुनपुंसकलिङ्गे ॥
तन्निर्वृतेः स्थानमुरोजयुग्मं जागर्ति गीर्वाणमृगीदृशोऽस्याः । प्रोद्यन्महानन्दरसा यदस्मिन्मुक्ता दृशो नोपनमन्ति भूयः ॥ १६ ॥ तत्तस्मात्कारणादस्या गीर्वाणमृगीदृशः शासनदेवतायाः उरोजयुग्मं वक्षोजन्मद्वन्द्वं स्तनद्वयं निर्धतेर्मोक्षस्य सुखस्य च स्थानं पदं जागर्ति विद्यते । 'सत्तायामस्त्यास्ते जा. गर्ति च विद्यते' इति क्रियाकलापे सत्तार्थाः क्रियाः । प्रकटीभवति वा । यद्यस्मात्कारणात् अस्मिन् देव्याः उरोजयुग्मं पयोधरद्वन्द्वं मुक्ता मोक्ष प्राप्ताः संसारकारागारादिति। सकलकर्मक्षयान्मुक्तात्मतां गताः । कामुकै रागातिशयान्मुक्ताः प्रेषिता निःक्षिप्ता वा । दृशो दृष्टयः प्रोद्यन्प्रकटीभवन्महानतिशायि आनन्याश्रयत्वादानन्दः प्रमोदः संजायमानोत्कृष्टानन्दस्तस्य तत्र वा यो रसः आखादो रागो वा यासां तादृश्यः सत्यः भूयः पश्चान उपनमन्त्यागच्छन्ति । तत्रैव स्थितास्तिष्ठन्ति । मुकात्मानः कामुकदृष्टयश्च सर्वथापि पश्चान्नायान्त्येवेत्यर्थः ॥
मित्रे गतेऽस्तं वियुनक्ति राजनरात्रिः कलत्रं तव नः कुलानि । इतीव दुःखं गदितुं प्रपन्नौ यद्वक्रचन्द्रं किमु चक्रवाकौ ॥ १७ ॥ कुचावेव चक्रवाको स्तनरूपी वा रथाङ्गविहंगमौ यद्वक्रं यस्यास्त्रिदश्या वक्रं वदनमेव आननरूपं वा चन्द्रं द्विजपतिं प्रपन्नौ समाश्रितो । 'त्वामेव वीततमसं परवादिनोऽपि नूनं विभो हरिहरादिधिया प्रपन्नाः' इति कल्याणमन्दिरस्तवने । उत्प्रेक्ष्यते-इत्यमुना प्रकारेण दुःखं खकीयातीवासातं गदितुं कथयितुमिव । इति किम् । यत् हे राजन् हे कुवलयबान्धव हे मध्यमभुवनजनाहादक, मित्रे अर्थादस्माकं सुहृदि बान्धवे च भा: स्करे अस्तं क्षयं द्वीपान्तरं वा तेजोवसाने । 'बजति द्वीपान्तरमहर्मणिः' इति सूक्तमु