________________
< सर्गः] हीरसौभाग्यम् ।
३४९ स्फुटीभवत्प्रकटं जायमानमेतत्प्रत्यक्षं रथाङ्गं देवीनितम्बतनुचक्रमिव शङ्के इवार्थे । अय वा अहमेव शङ्के वितकै कुर्वे । स कः । एतत्रिदशीनितम्बः एतस्या देव्या आरोहः । इति नितम्बः ॥
एतत्कलत्रस्य हरेः कलत्रक्षेत्रस्य सौभाग्यमुदीर्यते किम् । गाङ्गेयमप्यातनुते स्म काञ्चीनिभान्निजालिङ्गनलालसं यत् ॥ ४६ ॥ हरेः केसरिणः कलत्रं कटीकटः । 'कटिः श्रोणिः कलत्रं कुटीरं काश्चीपदं ककुद्मती' इति हैम्याम् । तस्य जैत्रस्य जयनशीलस्य तथा हरेः विष्णोः कलत्रस्य पत्न्या लक्ष्म्याः । जैत्रस्येत्यप्यर्थध्वनिः । एतस्या देव्याः कलत्रस्य कट्याः । एतस्य कस्यापि कलत्रस्य पत्न्या इत्यप्यर्थध्वनिः । 'कलत्रं श्रोणी भार्यायां दुर्गस्थाने च भूभुजाम्' इत्यनेकार्थः । 'द्वितीयोढा. कलत्रं च' इति हैम्याम् । सौभाग्यं सुभगतां सौन्दर्य चातुर्य वा किमुदीर्यते । किमित्यनिर्वचनीयमाहात्म्यं वर्ण्यते इत्यर्थः । यद्यस्मात्कारणाद्गाङ्गेयं ग. जातनयं भीष्मम् । अपिशब्देन ब्रह्मव्रतधारित्वेन सर्वथापि स्त्रीविषयविमुखमपीति लक्ष्यते । अथ च तत्त्वतो गाङ्गेयं सुवर्ण काञ्चीनिभान्मेखलाच्छलान्निजस्यात्मन आलिगने परीरम्भणे लालसं लोलमौत्सुक्यं वा यस्य जातदोहदं वा तृष्णातिरेको वा यस्य तादृशमातनुते स्म चकार । 'लालसो लोलयाश्चयोः । तृष्णातिरेक औत्सुक्ये' इत्यने. कार्थः । अमरस्तु–'इच्छातिरेकस्तु लालसा ॥
अस्याः कलत्रं हरिजित्वरं यन्मा मां हरिं तज्जयताद्भियेति । अढौकि काञ्ची कनकस्य तेन शय्याब्धिमुक्तामणिमण्डितेव ॥ ४७ ॥ यद्यस्मात्कारणात् अस्या देव्या हरेः पश्चाननस्य जित्वरं जयनशीलम् । अथ च कलत्रं पत्नीत्यर्थः । विद्यते तत्तस्मात्कारणात् मां नाना एकाभिधानेन हरि कृष्णमपि मा जयतान्मा पराभवतात् । इति हेतोभिया भयेन हरिणा अर्थात्प्रसत्तये शय्याभूतः पर्यङ्कभावप्राप्तस्याब्धेः समुद्रस्य मुक्तामणिभिर्मुक्ताफलै रत्नश्च मण्डिता भूषिता कनकस्य खर्णस्य काश्ची मेखलेवाढौकि प्राभृतीकृतेव ॥ इति कटिः ॥
उमोपयामे पुनराप्तजन्म शिशुस्मरस्येन्द्रगुरोरुपान्ते । अध्येतुकामस्य कलास्त्रिदश्याः पृष्ठस्थलीहाटकपट्टिकेव ॥ १८ ॥ त्रिदश्याः शासनदेवतायाः पृष्ठस्थली तनोश्चरमप्रदेशः । 'पृष्ठं तु चरमं तनोः' इति हैमीवचनात् । उमायाः पार्वत्याः उपयामे पाणिग्रहणकरणानन्तरं समये हरिविरञ्चिशकाद्यशेषवृन्दारकवृन्दातियाच्या प्रसन्नीभूतभूतपतिनिर्मितानुग्रहा पुनर्द्वितीयवारमाप्त लब्धं जन्मोत्पत्तिर्येन अत एवाभिनवोत्पादहेतोः शिशोर्बालकस्य स्मरस्य मन्मथस्य हाटकस्य जायजाम्बूनदस्य पट्टिकेव हस्तलेखविधानपट्टिकेव । स्मरस्य किं कर्तुकामस्य । इन्द्रस्य पुरंदरस्य गुरोराचार्यस्य बृहस्पतेः । 'ईदृशीं गिरमुदीर्य बिडौजा जोषमास न विशिष्य वभाषे । नात्र चित्रमभिधाकुशलत्वे शैशवावधिगुरुर्गुरुरस्य ॥' इति नैषधे । 'अभिधाकु