________________
काव्यमाला।
विलासिबालव्यजनाधृतोद्यच्छत्रा स्फुरद्वारिजराजमाना ।
अधीश्वरीवाखिलवारिजानां यदीयपादद्वितयी दिदीपे ॥ २५ ॥ यस्या देव्या इयं यदीया शासनदेवतासंवन्धिनी पादद्वितयी चरणयुगली दिदीपे शुशुभे । उत्प्रेक्ष्यते-अखिलानां समप्राणां वारिजानां जलजन्मनामत्रार्थात्कमलानामेव पदयोः पद्मानामुपमानत्वात् । वारिजशब्देन शङ्खोऽप्युच्यते । 'कम्बुस्तु वारिजस्त्रिरेख: षोडशावर्तः शङ्खः' इति हैमीवचनात् परं तन्निरासः । अथ वारिजशब्देन मुख्यतया पद्ममेवोच्यते तस्मात्कमलानामेवाधीश्वरी स्वामिनीव राज्ञीव । कि राजचिहं दर्यते विलसत इत्येवं शोभमाने बालव्यजने आकृतिरूपें । 'छत्तचामरपडागजूअलचमंडिया' इत्यजितशान्तिस्तवनात् । चामरे यस्यां यस्या वा । पुनः किंभूता । धृतमाकलितमाकारकायमातपत्रं छत्रं यया । स्फुरद्भिः प्रकटीभवद्भिः रेखाकारधारिभिर्वारिजैः पद्मविराजमाना शालिनी ॥
कथंचनाभ्यर्थनया मृदुत्वं रागश्रियं चाप्य पदारविन्दात् । प्रवालमाला धरणीरुहाणामिवाधमर्णीभवति स्म तस्याः ॥ २६ ॥ धरणीरुहाणां पादपानां प्रवालमाला पल्लवपतिः । तरूणां प्रवालकथनेन विद्रुमाणां निरासः कृतः । उत्प्रेक्ष्यते-तस्या देव्या अधमर्णीभवति स्म प्राहका जाताः । किं कृत्वा । कथंचन महता कष्टेन केनापि प्रकारेण वा अभ्यर्थनया देवीपुरस्ताद्याचनया कृत्वा पदारविन्दादर्थात् शासनदेवीचरणकमलान्मृदुत्वं सौकुमार्य च पुनः रागश्रियं लौहित्यलक्ष्मी चाप्य लब्ध्वा ॥ . .,
प्रसादकान्ती दधती सुवर्णालंकारिणी रम्यतमक्रमा च ।
संश्लेषदक्षाप्रतिमोपमानश्रीः श्लोकमालेव सुरी चकासे ॥ २७ ॥ . __ सुरी(शान)त्रिदशी श्लोकमालेव अनुष्टुभां पतिरिव चकासे दीयते स्म । किंभूता सुरी श्लोकमाला च । प्रसादं प्रसनभावं कान्ति शोभां वपुर्दीप्तिं वा तथा झगित्यर्थावबोधगोचरत्वं प्रसादगुणः । तथा दीप्तरसत्वं कान्तिस्ते दधती दधाना । पुनः किंभूता । सुवर्णैः काश्चनैर्विरचिता अलंकारा अङ्गप्रत्यङ्गाभरणानि विद्यन्ते सन्ति वास्याः । तथा शोभना वर्णा अक्षराणि । तथा उपमोत्प्रेक्षारूपकाद्या अलंकारास्ते सन्ति अस्यामिति । अस्त्यर्थीय इन् । पुनः किंभूता । रम्यतमी अतिशयेन मनोज्ञौ सामुद्रोकलक्षणलक्षितावत एवातिरुचिरौ क्रमौ चरणौ यस्याः अतिरमणीयचतुश्चरणा अनु. क्रमो वा यस्याः । पुनः किंभूता संश्लेषे खकामुकेन वल्लभेन समं सस्नेहसरोमाश्चाञ्चितं लतावेष्टितकाद्यालिङ्गनविशेषे निपुणा चातुर्यवती । तथा । शब्दगुणार्थगुणशब्दालंकारार्थालंकारादिरूपः सम्यक् समीचीनश्वेतश्चमत्कारकारी श्लेषस्तत्र दक्षा पट्टी। पुन: किंभूता । अप्रतिमोपमानश्रीः न विद्यते प्रतिमा सादृश्यं यस्याः । 'न तन्मुखस्य प्रतिमा.