________________
८ सर्गः] - हीरसौभाग्यम् ।
। ३१२ दश्या शासनदेव्या रक्षितान् खप्नेऽप्यन्यस्थानगमनाप्रदानतया गोपितान् प्रेक्ष्य दृग्गो. चरीकृत्य ॥ इति शासनदेवतासाधारणसर्वाङ्गवर्णनम् ॥
अथ पृथगङ्गवर्णनारम्भणम् । तत्र 'मानवा मौलितो वा देवाश्चरणतः पुनः' इति वचनात्कविसमयानुसारेण देवतापादादारभ्य वर्णयितुं प्रारभ्यते
जिनेशितुः शासनदेवतायाः पादारविन्देऽरुणिमा दिदीपे । प्रणेमुषीणां दिविषद्वधूनां सीमन्तसिन्दूरमिवात्र लग्नम् ॥ १६ ॥ जिनानां सामान्यकेवलिनामीशतुरधिराजस्य श्रीतीर्थकृतः शासनदेवताया जिनमक्तचातुर्वर्ण्यसंघस्य सम्यक्सांनिध्यविधायिन्या देव्याः पादारविन्दे चरणतामरसे अरुणिमा पादतले खाभाविकी रक्तता दिदीपे दीप्यते स्म शुशुभे । उत्प्रेक्ष्यते-प्रणेमुषीणां सेव्यत्वेन प्रणीतप्रणामानां दिविषद्वधूनां देवाङ्गनानां सीमन्तस्य केशेषु वर्त्मनः सिन्दूर शृङ्गारभूषणम् अत्र पादारविन्दतले लग्नमिव ॥ यत्पादपद्मन पराजितेन विजृम्भमाणारुणवारिजेन । शुश्रूषणायारुणिमा तदक्के शङ्के डुढौत्केऽरुणलक्ष्मिलक्षात् ॥ १७ ॥ विजृम्भमाणेन विकाशं प्राप्नुवता अरुणवारिजेन रक्तकमलेन । कोकनदेनेत्यर्थः । कर्ता । शुश्रूषणाय सेवाकारणाय अरुणिमा आत्मीयरक्तिमा तदके पादपद्मोत्सङ्गे अहमेवं शङ्के संशयं कुर्वे मन्ये । विचारयामीत्यर्थः । अरुणा या लक्ष्मीः शोभा विभूति तस्या लक्षात्कपटात् । 'व्यपदेशो मिषं लक्षं निभव्याजः' इति हैम्याम् । लमिशब्दो हखः शब्दप्रभेदे । अरुणिमा रक्तता खरागो डुढौके किमु प्राभृतीक इव । • किंभूतेन कोकनदेन । यत्पादप न यस्याः शासनदेवतायाः पादपद्मनेव चरणारविन्दद्वन्टेन पराजितेन पराभवपदवी प्रापितेन अर्थादात्मीयविभवेन ॥ इति पादतलरतिमा॥
यस्याः स्फुरत्कान्तिविकाशिताशाः कामाङ्कुशा दिद्युतिरे पदाजे । इदं मुखाम्भोजविनिर्जितेन राज्ञेव रत्नान्युपदीकृतानि ॥ १८ ॥ यस्याः शासनदेव्याः पदाब्जे चरणारविन्दद्वन्द्व कामाङ्कशा नखा दिद्युतिरे द्यो तन्ते स्म शुशुभिरे । किंभूताः । स्फुरन्तीभिरितस्ततः प्रसरन्तीभिः सूर्यज्योति:स्पर्धया वा स्फूर्जन्तीभिः कान्तिभिर्दीप्तिभिः विकाशिता प्रकटीभावं प्रापिता उद्यो. तिता आशा दशदिशो यैस्ते । उत्प्रेक्ष्यते-इदं मुखाम्भोजेन अस्या वदनवारिजन्मना। 'इदं नृपप्रार्थिभिरुज्झितोऽर्थिभिः, तथा 'इदं यशांसि द्विषतः सुधारुचः' इति पदद्वयमपि नैषधे । विनिर्जितेन पराजयगोचरीकृतेन राज्ञा चन्द्रेण नृपेण च रत्नाकरोद्भवत्वेन कोशसौधाधिपतित्वेन च द्वयोरपि मणीनां सद्भावात् रत्नानि जात्यपद्मरागमणयः उपदीकृताान ढौकितानीव ॥