SearchBrowseAboutContactDonate
Page Preview
Page 399
Loading...
Download File
Download File
Page Text
________________ ३३८ काव्यमाला। निर्यत्सुरानाशनिभूषणानि विरेजुरङ्गानि सुराङ्गनायाः । स्वस्पर्धिनः श्रीभिरिवेन्द्रचापवज्राण्यमीभिर्विधृतानि जेतुम् ॥ १३ ॥ __ सुराङ्गनाया जिनशासनत्रिदश्या अङ्गान्यवयवाः । 'एकदेशे प्रतीकोऽङ्गावयवापघना अपि' इति हैम्याम् । तथा 'अङ्गमन्तिकमात्रयोः । उपसर्जनभूते स्यादभ्युपायप्रतीकयोः॥' इत्यनेकार्थः । विरेजुर्विभान्ति स्म । किंभूतान्यङ्गानि । निर्यन्ति निर्गच्छन्ति प्रादुर्भवन्ति सुरास्त्राणि इन्द्रधनूंषि । 'धनुर्देवायुधम्' इति हैम्याम् । इन्द्रधन्वाप्युच्यते । तथा 'तस्मै .खभूषा दृषदंशु शिल्पं बलिद्विषः कार्मुकमर्पयन्ती' इति नैषधे । मणिज्योतिरिन्द्रधनुराकृत्या निर्याति । यथा नैषधे-'वृता विभूषा मणिरश्मिकामुकैः' इति । येभ्यस्तादृशान्यशनिभूषणानि वज्ररत्नखचिताभरणानि येषु तानि । अशनिशब्देनात्र वज्ररत्नमुच्यते। 'शुचीमुखं तु हीरकः । वराटकं रत्नमुख्यं वज्रपर्यायनाम च ॥' इति हैम्याम् । उत्प्रे. श्यते-अमीभिरङ्गः श्रीभिः शोभाभिः कृत्वा खस्पर्धिनः निजप्रतिमल्लीभूतशत्रून् जेतुं पराभवितुमिन्द्रचापवज्राणि शस्त्राणीव विधृतानि ॥ राजीवराजी विजिता यदङ्गैर्मृदुश्रिया रङ्गदनगरङ्गैः । तत्तुल्यभावाय तपः सृजन्ती वने वसन्तीव कुशेशयासीत् ॥ १४ ॥ यदङ्गैर्यस्या देव्या अङ्गैरवयवैर्मृदुश्रिया भावप्रधाननिर्देशात्सौकुमार्यलक्ष्म्या विजिता पराभूता सती राजीवराजी कमलमालिका । उत्प्रेक्ष्यन्ते-वने निकुञ्ज वसन्ती सती वासं विदधती । तिष्ठन्तीत्यर्थः । कुशेशयासीत् दर्भशायिनी बभूवेव । 'वनं कानननीरयोः' इत्यनेकार्थः । तथा कुशेशयं पद्मनामापि । यथा 'कमलं नलिनं पद्ममरविन्दं कुशेशयम्' इति हैम्याम् । तत्रोत्प्रेक्षापि । 'कुशो दर्भ जले द्वीपे' इत्यनेकार्थः । किं कुर्यन्ती । तेषामङ्गानां तुल्यभावाय सादृश्याय तपः सृजन्ती अनुतिष्ठन्ती । अन्यापि किंचित्फलं मनसि स्पृहयन्ती सती वनमध्यस्थायिनी तपः कुर्वाणा कुशप्रस्तरे शेते । किंभूतः । यदङ्गैः रङ्गन्नृत्यं कुर्वन् । 'नृत्यविधाने नृत्यति नटति च रङ्गति च विलसति च' इति क्रियाकलापे । योऽनङ्गः स्मरस्तस्य रङ्गैर्नर्तनस्थानै रङ्गन्ती जङ्गमा अनङ्गनर्तकस्य रङ्गा नर्तनशाला वा ॥ अगण्यनैपुण्यमुखान्नियन्त्र्य संरक्षितान्प्रेक्ष्य गुणांस्त्रिदश्याः । स्वयन्त्रणोद्भूतभयातिरेकात्तस्याः प्रणेशे किमशेषदोषैः ॥ १५ ॥ तस्याः शासनदेव्याः सकाशात् अशेषदोषैः समग्रापगुणैः प्रणेशे प्रणष्टं प्रपलाय्य गतम् । उत्प्रेक्ष्यते-स्वेषां खकीयात्मनां यद्यन्त्रणं बन्धनं तस्मादुद्भूताजाताद्भयातिरेकात्साध्वसातिशयादिव । किं कृत्वा । अगण्यान् गणयितुमशक्यान् गणनातिगानतिशायिनो वा नैपुण्यं दाक्षिण्यम्। चातुर्यमित्यर्थः । तदेव मुखमादौ मुखे वा धुरि येषां तान् । 'मुखमुपाये प्रारम्भे श्रेष्ठे निःसरणास्ययोः' इत्यनेकार्थः । गुणान्नियच्य नितरां यन्त्रयित्वा बद्धा त्रि.
SR No.002262
Book TitleHeer Saubhagya Mahakavyam
Original Sutra AuthorN/A
AuthorDevvimal Gani, Shivdatta Pandit, Kashinath Sharma
PublisherKalandri Jain S M Sangh
Publication Year1985
Total Pages980
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy