SearchBrowseAboutContactDonate
Page Preview
Page 389
Loading...
Download File
Download File
Page Text
________________ ३२८ काव्यमाला। तरणतामरसविसावादनादिकां क्रीडामाधाय कृत्वा । समुद्रे हंसानां · सद्भावो दृश्यते । यदुक्तम्-'हंसान्सहेत(?) पद्मरेणुकपिशशीरार्णवाम्भोभृतैः' इति स्नातस्य स्तुतौ ॥ संचारि निर्दण्डमिवातपत्रं विहस्तको वा चलदात्मदर्शः। क्रीडातडागः किमु जङ्गमो वा स्मरावनीन्दोः शशभृद्भासे ॥ ८ ॥ शशभृच्चन्द्रो वभासे राजते स्म । उत्प्रेक्ष्यते-स्मरावनीन्दोः मेदिनीकुमुदसुहृदः कामराजस्य संचारि दिव्यानुभावेन खयं संचरणशीलं तथा निर्गतो दण्डो यस्मात्तन्नि-' दण्डमवष्टम्भयष्टया रहितमातपत्रं सितातपवारणमिव वाथ वा । पुनरुत्प्रेक्ष्यते-स्मरनरपतेर्विहस्तको हस्तग्रहणोचितस्थाणुनिर्मुक्तः चलन् खयमेव प्रतिष्टमान आत्मदर्श: दर्पण इव वा । पुनरुत्प्रेक्ष्यते-कन्दर्पपार्थिवस्य जङ्गमः कथंचन देवतानुभावाड्रमणरसिकक्रीडातडाको लीलासरोवरमिव ॥ इति चन्द्रमण्डलसंचारः ॥ . . भीतेः खिकाया दिवसस्य लक्ष्मी विज्ञाय नष्टामिह जीवनाशम् । . विद्मो वसत्या हसितं हसन्त्या ज्योत्स्ना जजम्भे गगने सुधांशोः।।८ १॥ सुधांशोश्चन्द्रस्य मनागित्यध्याहार्य ततः किंचित् ज्योत्स्ना चन्द्रिका जजृम्भे प्रकटीभूता विस्तृता वा । इहात्र ज्योत्स्नाविज़म्भणे वयमेवं विद्मो जानीमः । विचारयाम इत्यर्थः । इह जीवलोके खिकायाः खस्या रात्र्याः सकाशात् । 'हंसं तनौ संनिहितं वरन्तं मुनेर्मनोवृत्तिरिव स्विकायाम्' इति नैषधे । भीतेर्भयाजीवनाशं नष्टां जीवं गृहीत्वा प्रपलाय्य गतां दिवसस्य वासरस्य लक्ष्मी श्रियं विज्ञाय ज्ञात्वा अवधार्य हसन्त्याः खोत्कर्षेण हास्य सृजन्यावसत्या निशाया हसितं स्मितं हास्यमिव । अम्बरे विरुरुचे सुधारुचेश्चन्द्रचञ्चुरमरीचिसंचयः । दुग्धवारिनिधिरात्मजं विधुं किं चिराय मिलितुं समीयिवान् ॥८२॥ अम्बरे आकाशमण्डले सुधारुचेरमृतकिरणस्य चन्द्रस्य चन्द्रवत्कर्पूर इव चक्षुरो मनोज्ञः । धवल इत्यर्थः । 'चन्द्रोऽम्बुकाम्ययोः ।वणे सुधांशी कर्पूरे कम्पिल्ले मेचकेऽपि च॥' इत्यनेकार्थः । मरीचीनां कान्तीनां संचयो निकरो विरुरुचे विरोचते स्म शुशुभे। 'विरुरुचे.."ष्टितभूमिषु' इति रघुवंशे। उत्प्रेक्ष्यते-दुग्धवारिनिधिः क्षीरसमुद्रः आत्मजं नन्दनं दुग्धाम्भोनिधावुत्पनत्वेन विधुं सुधादीधितिं चिराय वहोः कालात् । 'चिराय चिररात्राय चिरस्य च चिराचिरम्' इति हैम्यामव्ययाधिकारे । मिलितुं पुत्रस्नेहेन मिलनार्थ समीयिवान्कि समागत इव ॥ गगने चन्द्रगोलिकाङ्गः ॥ खर्ग गता ऋतुभुजां प्रभवामि तृप्त्यै तद्वन्नणामपि धरामधिगत्य नित्यम् । पीयूषसंततिरितीव विचिन्तयन्ती ज्योत्स्नातनूरवततार तलेऽचलायाः ॥ ८३ ॥ .
SR No.002262
Book TitleHeer Saubhagya Mahakavyam
Original Sutra AuthorN/A
AuthorDevvimal Gani, Shivdatta Pandit, Kashinath Sharma
PublisherKalandri Jain S M Sangh
Publication Year1985
Total Pages980
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy