________________
७ सर्गः]
हीरसौभाग्यम् ।
३२७
प्रेम्णा याचनया वा । 'प्रणयः प्रेमयाच्चयोः । विस्रम्भे प्रसरे चापि' इत्यनेकार्थः। खा. वसथं निज निकेतनं समीयुषि सम्यग्भोगागकलिते संप्राप्ते पत्यौ भर्तरि सुरेन्द्र निर्जरनायके सति । अथ वा शके स्नेहेन खगृहे समागते सति ॥ इति चन्द्रोदयः ॥
पूर्वाद्रिमौलेरथ मन्दमन्दं प्रचक्रमे गन्तुमचण्डरोचिः । निजोदयश्रीनवनृत्तसूत्रधारापरादि मिलितुं किमुत्कः ॥ ७७ ॥
अथाभ्युदयानन्तरं न विद्यन्ते चण्डानि तीक्ष्णानि रोचींषि यस्य सः अचण्डरोचिः शीतकान्तिश्चन्द्रः पूर्वाद्रिमौलेरुदयाचलचूलातः मन्दमन्दं शनैःशनैः । 'गगनमवजगाहे मन्दमन्दं मृगाः' इति चम्पूकथायाम् । तथा-'मन्दं मन्दं नुदति पवनश्चातकस्तोयगृचः' इति मेघदूतेऽपि दृश्यते । गन्तुं प्रचलितुं प्रचक्रमे प्रारब्धवान् । 'प्रचक्रमे वक्तुमनुक्रमज्ञा सविस्तरं वाक्यमिदं सुनन्दा' इति रघुवंशे । उत्प्रेक्ष्यते-निजस्यात्मनः उदयश्रिया अभ्युद्गमनलक्ष्म्या नवं नवीनं यन्नृत्तं ताण्डवं नाटकं तत्र तस्य वा सूत्रधारं नृत्यकलाचार्यम् । नाटकप्रारम्भकमित्यर्थः। तादृशमपरादि पश्चिमाचलम् । अस्तादिमित्यर्थः। मिलितुमुत्कः किमु उत्कण्ठित इव । चन्द्रस्य हि प्रतिपद्वितीययोः पश्चिमाचलादेवाभ्यु. दयः । तस्मादस्ताचल एव चन्द्रस्योदयाचल: । 'उदयगिरिकुरङ्गीचङ्गकण्डूयनेन खपिति सुखमिदानीमन्तरोदोःकुरङ्गः' । पुनः 'परिणतरविगर्भव्याकुला पौरहूती दिगपि घनकपोतीहुंकृते क्रन्थतीव' इत्युदयनाचार्यकालिदासकवीन्द्रयोः प्रातवर्णने पृथक्पृथक् पदद्वये ॥ स्वर्भाणुभीतेः शरणीकृतेन प्राचीधवेनायमुपेक्षितः सन् ।
त्रस्यञ्छशाङ्कः किमु पश्चिमाशापतेः शरण्यस्य समेत्युपान्ते ॥ ७८ ॥ . त्रस्यन् रिपोः सकाशात्रासमाकस्मिकं भयं संप्राप्नुवन् अयं गगनावगाही शशाङ्कआंन्द्रः । उत्प्रेक्ष्यते-शरण्यस्य शरणागतवत्सलस्य पश्चिमाशापतेः पश्चिमदिक्पालकस्य वरुणस्योपान्ते समीपे किमु समेति समागच्छतीव । किंभूतः सन्। वाणुभीतेः निजस्यात्यन्तप्रत्यर्थितया गिलनशीलस्य विधुतुदस्य भीतेर्भयात् शरणीकृतेन आगत्याश्रितेन प्राचीधवेन पूर्वदिक्पतिना वज्रपाणिनाप्युपेक्षितः अकृतममत्वः सन् न खशरणे रक्षित इत्यर्थः ॥
प्राचीपयोरशिपयःप्लवान्तविलासमाधाय मरालबालः । - क्रीडां चिकीर्षुः किमु पश्चिमाब्धौ नभोध्वनासौ प्रचचाल चन्द्रः ७९
असौ प्रत्यक्षलक्ष्यः वर्णनगोचरीकर्तुमारब्धो वा चन्द्रः श्वेतकान्तिनभोध्वना गगनमार्गेण प्रचचाल चलति स्म । उत्प्रेक्ष्यते-पश्चिमाब्धौ प्रतीचीसमुदनीरपूरे क्रीडां जलकेलिविलासं चिकीर्षुः कर्तुमिच्छुमरालबाल: शिशुकलहंसः किमु प्रचलति । किं कृत्वा । प्राचीपयोराशेः पूर्वसमुद्रस्य पयःप्लवान्तः पानीयपूरमध्ये विलास मजनोन्मजन