________________
३२४
काव्यमाला। अथो दधे चण्डकरे प्रयाते प्राच्या मुखे किंचन पाण्डिमश्रीः। म्मितं प्रमोदादिव सौम्यराजोदयं प्रकृत्येव दिशां समीक्ष्य ॥ ६६ ॥
अथो संध्यारागान्धकारतारकाभ्युदयानन्तरं चण्डकरे उग्रदण्डे नृपे सूर्ये प्रयाते अतमिते सति प्राच्या पूर्व दिशा किंचन किमपि मुखे खवदने पाण्डिमश्रीरुज्वलतायाः शोभा दधे धृता । प्राच्यां दिशि धवलिमा प्रादुर्भवति स्म । उत्प्रेक्ष्यते-सौम्यराजो. दयं सोगतासंयुक्तत्य राज्ञश्चदस्य भूवल्लभस्य च उदयमुद्गमनं पैतृकपदप्राप्तिलक्षणांभ्यु. दयं समीक्ष्य विलोक्य प्रकृत्येव प्रजयेव नगरलोकेनेव । 'राज्याङ्गानि प्रकृतयः पौराणां श्रेणयोऽपि च' इति हैम्याम् । दिशा पूर्वहरिता प्रमोदात्खाभिमतराजप्राप्तिजनितहर्षाविर्भावात्स्मितं हसितमिव ॥
संमृज्य रज्यद्दयितेन पत्नी हरेहरित्तारविभूषणश्रीः । गर्भ वहन्ती मिहिकामयूखं मुखेऽपुषत्पाण्डुरिमाणमूहे ॥६७ ॥ हरेरेिन्द्रस्य पत्नी कान्ता हरित् दिक् एतावता पूर्वदिक् मुखे निजास्ये पाण्डुरिमाणं धवलतामपुषत् पुपोष अतीव पाण्डुरवदना संजातवती । 'निजमुखमितः स्मरं धत्ते हरेमहिषी हरित्' इति नैषधे । तत्राहमेवमूहे तर्कयामि । 'ऊह वितर्के' इत्ययं.धातुः । मिहिकामयूखं हिमकरं चन्द्रं तमेव गर्भ भ्रूणं दोहदनक्षणं वहन्ती सती दधानेव। किं कृत्वा ।रज्यता अनुरक्तीभवता।'रज्यन्नखस्याङ्गुलिपञ्चकरय' इति नैषधे। दयितेन प्राणप्रि. येण पुरंदरेण साकं समं संसृज्य सङ्गं कृत्वा। निर्वापयिष्यन्निव संसिसृक्षोः' इति नैषधे । 'सझं कर्तुमिच्छोः' इति तदृत्तिः । किंभूता हरित् । ताराणां निर्मलमौक्तिकानाम् । 'तारो निर्मलमौक्तिके' इत्यनेकार्थः । ताराणां राजतीयानां वा ताराणां शुभ्राणां वा तारकरूपाणां वा विभूषणानामाभरणानां श्रीः शोभा यस्याः । 'प्रथममुपहृत्यार्थ तारैरखण्डिततन्दुलैः' इति नैषधे । तारकवाची तारशब्दः । अपरस्तद्वत् । अपरापि युक्ती राज्यं निजवल्लभेन समं संगमनागुर्विणी सती खवदने विशदिमानं दधातीति रीतिः स्थितिश्च ॥
आकण्ठमम्भःसु निमज्य काममन्त्रोऽलिशब्दैः कुमुदैरसाधि । विकाशलक्ष्मी ददती किमेपा तसिद्धिरिन्दुद्युतिराविरासीत् ॥ ६८ ॥
कुमुदैः कैरवैश्चन्द्रविकाशिकमले: आकण्ठं गलकन्दलं मर्यादीकृत्य अम्भःसु पानीयेषु निमज्य बृडित्वा अलिशब्दमधुकरमधुरगुजारवैः कृत्वा काममन्त्री मानसमनीषितप्रदायिका विद्या असाधि साधित आराद्धः । उत्प्रेक्ष्यते-एषा प्रत्यक्षलक्ष्या इन्दुा तिश्चन्द्रचन्द्रिकारूपा तत्साधकस्याभीष्टविधायक्रमवस्य सिद्धिः फलनिष्पत्तिराविरासीत्किम
टीभूतेव । तत्सिद्धिः किं कुर्वती । एषां कुमुदानां विकाशलक्ष्मी स्मेरताश्रियं विश्राणयन्ती ॥