________________
७ सर्गः] हीरसौभाग्यम् ।
३२३ कान्ते निममेऽम्बुनिधौ प्रणश्य दिनश्रियोऽत्राणतया प्रयान्त्याः । आच्छिद्य मुक्ताभरणानि तारा द्विषत्तयेवाददिरे रजन्या ॥ ६३ ॥ अत्राणतया अरक्षकत्वेन अशरणभावेन वा प्रणश्य जीवनाशं नष्टा प्रयान्त्याः क्वचिद्गुप्तस्थाने गच्छन्त्या दिनश्रियो दिवसलक्ष्म्यास्तारा.एव ज्योतीरूपाणि वा मुक्ताभरणानि मक्ताफलमयानि भषणानि द्विषत्तया वैरिभावेन रजन्या रात्र्या आच्छिद्य हटालं कृत्वा आददिरे उद्दाल्य गृहीतानीव । कस्मिन्सति । कान्ते अर्थाद्दिनश्रिया भर्तरि भास्करे अम्बुनिधौ समुद्रपयःप्लवे निमग्ने ब्रूडिते सति ॥
खःकूलिनीकूलविलासिनीनां प्रदोपविश्लेषिविहंगमीनाम् । विलोचनोद्भूतपयःपृषद्भिः किमम्बरं तारकितं पतद्भिः ॥ ६४ ॥
खःकूलिन्या गगनगङ्गायाः कूले तटे विलसन्ति । 'लस श्लेषणक्रीडनयोः' इति धावर्थत्वेन आश्लिष्याश्रित्य तिष्ठन्ति खैरं भर्ता वा क्रीडन्तीति वा । इत्येवंशीलास्तादृशीनाम् । तथा प्रदोषे दोषामुखे विश्लेषो निजप्रियेण समं वियोगोऽस्त्यासां तासां विहंगमीनां पक्षिणीनाम् । अर्थाचक्रवाकीनाम् । 'विगयोः कृपयेव शनैर्ययौ रविरहर्विरहध्रु. वभेदयोः' इति रघुवंशे । 'दिवसावसाने निश्चयेन वियोगयोः विहगयोश्चक्रवाकीचक्रवाकयोः कृपयेव' इति तदृत्तिः । 'पुमान् स्त्रिया,' 'स्त्रिया सहोक्तौ पुमान् शिष्यते न तु स्त्री' इति केवलविहगशब्दः । तथा 'निजपारेवृढं गाढप्रेमा रथाङ्गविहंगमी' इति नेषधे विहंगमीशब्दः । 'स्वर्गिगङ्गास्थाहः' इति काव्यकल्पलतायाम् । विलोचनेभ्यः नेत्रेभ्य उद्भूतानां वियोगातिदु:खीदयादाविर्भूतानाम् । नेत्रनिःसृतानामित्यर्थः । पयसामश्रुजलानां पृषद्भिविन्दुभिः । 'बिन्दौ पृषत्पृषतविप्नुषः' इति हैम्याम् । उत्प्रेक्ष्यते-पतद्भिः क्षरद्भिः अर्थात् गगनाङ्गणमागत्य तिष्ठद्भिः सद्भिः अम्बरमाकाशं तारकितं तारकाः संजाता अस्मिन्निति तादृशं तारककलापकलितं किं जातं बभूवेव ॥
स्वां निष्ठितां प्रेक्ष्य सुधां सुधांशैः पुनः कृतेऽस्या इव मथ्यमानात् । सुधाम्बुधेयॊनि समुच्छलद्भिरम्भःकणैस्तारभरैर्बभूवे ॥ १५ ॥ सुधाम्बुधः क्षीरसमुद्रात्सुधाया उत्पत्तिस्थानत्वात्कविसमये प्रसिद्धत्वाच्च सुधाम्बुधिः। तथा 'सुधाम्भोनिधिडिण्डीरपिण्डपाण्डुयशःकुशेशयखण्डमण्डितसकलसंसारसराः' इति चम्पूकथायाम् । व्योनि पवमानपदव्यामुच्छलद्भिर्वे गच्छद्भिरम्भःकणैर्जलबिन्दुभिः । उत्प्रेक्ष्यते-तारभरैयोतितिर्बभूवे संजातम् । सुधाम्भोधेः किं क्रियमाणात् । स्वां स्व. कीयां नारायणमथनसमयसमुद्भतां प्राचीनां सुधां पीयूषं निष्टितां व्ययितां भुक्त्वा पीत्वा सर्वामपि क्षयं नीतां प्रेक्ष्य दृष्ट्वा पुनर्व्याधुट्य अस्याः सुधायाः कृते अर्थाय । तर्हि तेऽन्यमप्याहारं कथं न कुर्वन्तीत्यत आह-यतस्ते केवलं सुधाममृतमेवानन्तीति सुधाशा देवास्तैमथ्यमानात् विलोक्यमानात् ॥ इति तारकाणामुदयः॥