SearchBrowseAboutContactDonate
Page Preview
Page 353
Loading...
Download File
Download File
Page Text
________________ २९२ काव्यमाला । किमपास्य जिनांहिसेवया शशिना येन कलङ्ककश्मलम् । स्थितमेत्य दिवः क्षितौ पुनर्नभसो नीलिमसङ्गशङ्कया ॥ ११२ ॥ येन यद्रूपेण कमामूर्तिना शशिना चन्द्रेण । उत्प्रेक्ष्यते - दिव आकाशादेत्य आगत्य क्षितौ पृथिव्याम् । अर्थात् नडुलाईनगर्याम् । स्थितं वासो विहितः । किं कृत्वा । जिनो वीतरागः स्वविमानप्रसादगतशाश्वतार्हत्प्रतिमा तस्यां हे: पदस्य सेवया विविधपूजास्तवाद्युपासनया । अथ च जिनो विष्णुस्तस्यांद्देरुपास्या । तत्त्वतस्तु 'आकाशं विष्णुपदम्' इत्यभिधानम् । कलङ्करूपं कश्मलं मलमपास्य निरस्य । तर्हि तत्रैव कथं न स्थितम्, स्थानाभावे हेतुमाहइ-कया । पुनर्व्याघुट्य नभसः आकाशस्य नीलिमा श्यामलत्वं तस्य सङ्गो मिलनं भवनं तस्य शङ्कया अनिष्टोत्प्रेक्षणेन । ' धृतगम्भीरखनीखनीलिमा' इति नैषधे गगनस्य श्यामत्वम् । श्यामनीलत्वयोरभेदः ॥ करवीरगृहत्वमुग्रतां प्रविहायात्मविरूपनेत्रताम् । पुरि यन्निभतोऽवतीर्णवानिव पीयूषमयूखशेखरः ॥ १५३॥ पुरनारदपु यस्य कमासाहस्य निभतः कपटातू । उत्प्रेक्षते - पीयूषमयूखशेखरचन्द्रमौलिरीश्वरोऽवतीर्णवानिव अवतारं गृहीतवानिव । किं कृत्वा । करवीरगृहत्वं इम. शानवेश्मताम् । 'श्मशानं करवीरं स्यात्' इति हैम्याम् । पुनरुग्रताम् । चण्डतां तथात्मनो निजस्य विरूपं विरुद्धं विकृताकारं वह्निमयत्वान्नेत्रं यस्य तत्ताम् । 'अहिर्बुनो विरूपाक्ष-विषान्तकौ च' इति म्याम् । तृतीयानललोचनतामित्यर्थः । प्रविहाय त्यक्त्वा ॥ इति कमावर्णनम् ॥ कोडाईत्यस्य कान्तासीज्जगतीयुवतीमणिः । यथा सुमनसां सार्वभौमस्य जयवाहिनी ॥ १५४ ॥ अस्य कमाव्यवहारिण: कोडाई इति नाम्ना कान्ता पत्नी आसीत् । किंभूता । जगत्या भूमेर्युवतीनां यावद्वनितानां मध्ये मणी रत्नम् । केव । जयवाहिनीव । यथा सुमनसां देवानां सार्वभौमस्य चक्रवर्त्तिनः शक्रस्य पौलोमी नाम पत्नी आस्ते । यथेतीवार्थे ॥ रम्भा दम्भादिवामुष्यास्त्रिदशी त्रिदशौकसः । विमोहिता कमारूपं निरूप्यास्यामुपागता ॥ ११९ ॥ कमाव्यवहारिणो रूपं शरीरसौन्दर्य निरूप्य विलोक्य विमोहिता रागातिशयं प्राप्ता सती अमुष्या कोडिमा देव्या दम्भात् कपटात् त्रिदशौकसः स्वर्लोकतः अस्यां मडुलाईउपागता समेत । उत्प्रेक्ष्यते - रम्भानान्नी त्रिदशी अप्सरा इव देवीव । अथवा 'प्रेक्ष्य क्ष्मायामुपागता' इति पाठः ॥ दृष्ट्वा पतितं त्यां प्रीत्येव त्यक्तकायया । दुःखात्सपत्न्यास्तत्पत्न्या व्याजाज्जन्माददेऽपरम् ॥ ११६ ॥
SR No.002262
Book TitleHeer Saubhagya Mahakavyam
Original Sutra AuthorN/A
AuthorDevvimal Gani, Shivdatta Pandit, Kashinath Sharma
PublisherKalandri Jain S M Sangh
Publication Year1985
Total Pages980
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy