________________
६ सर्गः]
हीरसौभाग्यम् ।
२९१
भर्तृत्वेन अधिगत्य कलधौते कनकरूप्ये प्रमुखे आदी येषां तादृशान् सर्वधातुप्रधानान् खनीव्रजान् खानिनिकरानजीजनत् प्रकटीकृतवती । केव । युवतीव । यथा तरुणी स्त्री तरुणं युवानं तरुणं यौवनमदोन्मत्तं कान्तं प्राप्य अङ्गजान् नन्दनान् जनयति ॥
विपुलां विपुलाहवाहताहितशूरस्रवदखराशिना ।
हृदयेशवदूर्णुनाव यो नवकौसुम्भिकवाससा वशाम् ॥ १४९ ॥
य उदयसिंहमहीमहेन्द्रो विपुलाहवेषु महासंग्रामेषु आहताः सामस्त्येन सपरिवारेण व्यापादिता येsहिताः खशत्रुभूताः शूराः स्वभटास्तेषां स्रवताङ्गोपाङ्गेभ्यो निःसरता अखराशिना रुधिरप्रकरेण विपुलां वसुधामूर्णुनावाच्छादयामास । किंवत् । हृदयेशवत् प्राणवल्लभ इव । यथा भर्त्ता स्वकान्तां नवेन सद्यस्केन कौसुम्भिकेन कुसुम्भेन रक्तं वस्त्रं कौसुम्भिकं तेन कुसुम्भरञ्जितेन वाससा नोर्णाति आच्छादयति परिधापयति । 'ऊर्णुक्छ आच्छादने' ह्वादिको धातुः ॥
बहुना महिमाभिनन्द्यते किममुप्योदय सिंहभूपतेः ।
न चिरादजरामरीभवेद्युधि योऽभ्येत्य हि संमुखीभवेत् ॥ १५० ॥ अमुष्योदय सिंहभूपतेर्महिमा माहात्म्यं बहुनाधिक्येन किं अभि सामस्त्येन नन्द्यते समृद्धि प्राप्यते । अभिनन्द्यते प्रशस्यते वा । यस्मात् कारणाद्युधि संग्रामे यः कोऽपि वीरः सुभट: अमुष्य भूवलयैकवीरस्य राज्ञः अभ्येत्य शौर्यादागत्य संमुखीभवेत् संभु• खीभूयात् तेन सह संग्रामं कुर्यात् स विक्रान्तो न चिरादल्पकालादेव अजरामरीभवेदजरामरत्वं लभते । देवभूयं भजेदित्यर्थः । यतः —— :- 'जिते च लभ्यते लक्ष्मीर्मृते चापि सुराङ्गना । क्षणविध्वंसिनि काये का चिन्ता मरणे रणे ॥' इति वृत्तरत्नाकरवृत्तिवचनात् ॥ इत्युंदयसिंहराणकः ॥
अपि तत्र कमाख्यनैगमोऽजनि तद्भूपुरुहूतसंमतः ।
व्यवहारिषु यः पुरोगतां समवर्गेषु दधार धर्मवत् ॥ १५१ ॥
अपि पुनस्तत्र नडुलाई नगर्यो कमा इत्याख्या नाम यस्य तादृशो नैगमो वणिक् अजनि जातः। किंभूतः। तस्य पूर्वव्यावर्णितस्य भूपुरुहूतस्योदयसिंहभूमीन्द्रस्य संमतो मान्यः । 'इदमः प्रत्यक्षगते समीपतरवत्तिं चैतदो रूपम् । अदसस्तु विप्रकृष्टे तदिति परोक्षे विजानीयांत् ॥' ग्रन्थकरणावसरे तस्य राज्ञः परोक्षत्वात् एतत्कथनम् । अथवा इदं स्वाभावि - कवचनम्, कवीनां वर्णनौत्सुक्यात् सर्वमपि प्रत्यक्षमेव स्यान्नैषधे प्रयोग निदर्शनात् । इह नगर्यो यः कमाख्यः साधुर्व्यवहारिषु लक्ष्मीवत्सु पुरोगतां प्रकृष्टताम् । 'वर्य वरेण्यं प्रकरं पुरोगम्' इति हैम्याम् । मुख्यतामित्यर्थः । दधार विभात्तं स्म । किंवत् । धर्मवत् यथा समेषु सर्वेषु चतुर्षु वर्णेषु अर्थादिलक्षणेषु धर्मः प्रधानतां धत्ते । अर्थकाममोक्षाणां धर्माधीनत्वेन धर्म एव मुख्यः ॥
1