________________
६ सर्गः ]
हीरसौभाग्यम् ।
२८९
लाः पतयो यासु । मलयस्य किं कुर्वतः । शमनस्य यमस्याशाया वाञ्छाया अङ्कमुत्सङ्गम् । तत्त्वतस्तु दक्षिणादिक्कोडम् । अपास्य त्यक्त्वा हृष्यतः प्रमोदं प्राप्नुवतः । प्रायो दुष्टाशयसमीपं त्यजन् जनः संतुष्यति ॥ इति मेदपादमण्डलः ॥
इह नीवृति नारदाभिधा नगरी नागपुरीक राजते ।
बलिराजविराजितान्तरा रममाणानणुभोगिभाजिनी ॥ १४१ ॥
इहास्मिन् नीत्रुति मण्डले नारदाभिधा 'नडुलाई' इति नाम्ना लोकप्रसिद्धा नारद इत्यभिधा नाम यस्यास्तादृशी नगरी नागपुरीव भोगवतीव राजते दीप्यते । किंभूता । बलिना बलवता राज्ञा विशेषेण राजितं शोभितं अन्तरं मध्यं यस्याः । पक्षे - बलि - नाम्ना नृपेण दानवाधिपतिना भूषितमन्तरं मध्यं बलिवेश्मत्वात् । पुनः किंभूता । रममाणाः स्वैरं क्रीडां कुर्वाणाः अनणवो महान्तो भोगिनो राज्यादिसुखवन्तो विलासिनस्तान् भजतीत्येवंशीला । पक्षे – खेलनमहाकायभुजगकलिता ॥
उपमातुमिवामरावतीं भुवने तन्निभभावदुर्विधे ।
कृतवानरविन्दनन्दनः पुरमेतां विबुधैरुपासिताम् ॥ १४२ ॥
अरविन्दनन्दनो ब्रह्मा । ‘पद्मनन्दनसुतारिरंसुना' इति नैषधे । यथा पद्मनन्दनस्तथैवारविन्दनन्दन इति । एतां 'नडुलाई' नगरीं कृतवान् निर्मितवान् । किंभूताम् । विबुधैविशिष्टपण्डितैर्देवैश्च उपासितां सेविताम् । उत्प्रेक्ष्यते - तन्निभभावैस्तस्या अमरावत्या निभास्तुल्या ये भाचा नगरीरूपाः पदार्थास्तैर्दुर्विधे दरिद्रे इन्द्रपुरी प्रतिमापरनगरीरहिते तादृशे भुवने विश्वे अमरावतीमिन्द्रनगरीमुपमातुमुपमायुक्तां कर्तुमिव । अमरावतीसंनिभामित्यर्थः ॥
: युवतीयुवराजिराजिते नगरे सालनिभान्मनोभवः ।
स्थितवान्नवसूरिसाध्वसादिव दुर्गे प्रविधाय सानुगः ॥ १४३॥
मनोभवो मदनो नगरे 'नडुलाई' पुर्याम् । उत्प्रेक्ष्यते – नवसूरे: हीरविजयाचार्यस्य साध्वसाद्भयात् स्थितवानिव । किं कृत्वा । दुर्गे कोहं प्रविधाय निष्पाद्य । कस्मात् । सालनिभात् नगरी प्राकारच्छलात् । किंभूते नगरे । युवतीयुवराजिराजिते तरुणीतरुणश्रेणीभूषिते । स्मरः किंभूतः । सानुगः सहानुगैः खसेवकैर्निजपरीवारैर्वर्तते यः ॥ यदनन्यहिरण्यशीतरुग्मणिक्कॢप्तालयलक्ष्मिकाङ्क्षया ।
चरणं मुरवैरिणोऽनिशं शुचिचन्द्रावुपचेरतुः किमु ॥ १४४ ॥ यस्याः नारदपुर्या अनन्यानामसाधारणानां हिरण्यैः सुवणैः तथा शीतरुग्मणिभिः चन्द्रकान्तरत्नैः कृप्तानां निर्मितानाम् । सुवर्णचन्द्रकान्तमयानामित्यर्थः । आलयानाम् । अनेक मन्दिराणामित्यर्थः । लक्ष्म्याः शोभायाः । लक्ष्मीशब्दः शब्दभेदे हवोऽप्यस्ति । तथा समासमध्ये ह्रस्वशब्दानयने न दोषः । यदुक्तं जिनप्रभसूरिकृत चतुर्विंशतिजिनस्तव -
३७