SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ २८८ काव्यमाला। सुरमन्दिरजित्वरश्रिया गमितं येन विमानमीयताम् । फणभृद्भुवनं भुवस्तलं भजति वीडभरोदयादिव ॥ १३७ ॥ येन मेदपाटमण्डलेन सुरमन्दिरस्य खर्लोकस्य जित्वर्या जयनशीलया श्रिया लक्ष्म्या विमाननीयतामपमानपदवीं गमितं प्रापितं सत्फणाभृद्भुवनं नागलोक उत्प्रेक्षते-व्रीडभरस्य लज्जातिरेकस्योदयादाविर्भावाद् भुवस्तलं भूमेरधोविभागं भजति शीलतीव । बीडशब्दोऽकारान्तोऽपि नाममालावृत्तौ तथा 'ब्रीडायां च भवेद्रीडः' इति शब्दप्रभेदे ॥ अलकायितपूःपरम्पराः परमं बिभ्रति यत्र विभ्रमम् । नभसोऽनवलम्वनच्युतेः शतशोऽशा इव भूतले दिवः ॥ १३८ ॥ यत्र देशे अलकायिता सर्वसमृद्धया धनदनगरीवदाचरिताः पू:परम्परा पुरीपतयः परममुत्कृष्टं विभ्रमं शोभां बिभ्रति धारयन्ति । उत्प्रेक्ष्यते-नभसः आकाशादनवल. म्बनेन आधाररहितत्वेन च्युतिः पतनं यस्यास्तादृश्या दिवो देवलोकस्य भूतले भूमिमण्डले शतशः शतसंख्याका अंशा भागाः खण्डा इव ॥ त्रिजगद्विजयोद्यतस्य यद्वनराज्यो रतिज़ानि धन्विनः । सुमसंगतषट्पदा धनुर्विशिखोल्लासिखलरिका इव ॥ १३९ ॥ यद्वनराज्यो मेदपाटमण्डलसंबन्धिन्यो विविधविपिनश्रेणयः शोभन्ते इति संबन्धः । किंभूताः । सुमेषु पुष्पेषु संगता विकसत्यत्र प्रकरनिःसरदमन्दमकरन्दपानागमनेन मि. लिता अथवा मकरन्दपानलोलुपतया समेत्यान्तर्निलीयमानाः षट्पदा मधुकरा यासु ताः । उत्प्रेक्ष्यन्ते-त्रिजगद्विजयोद्यतस्य त्रिभुवनजनपरम्परापराभवनविनिर्मितोद्यतस्य र. तिर्जाया यस्य स रतिजानिः । 'जायाया निङ्' इतिनिप्रत्ययः । 'लोपो व्योवलि' इति यकारलोपे सिद्धं जानिरिति प्रक्रियाकौमुद्याम् । रतिपतिः स एव धन्वी धनुर्धरस्तस्य कुसुमायुधधानुष्कस्य धनूंषि कोदण्डा विशिखा बाणास्तैरुल्लसन्ति शोभन्ते इत्येवंशीला: खलूरिकाः धनुर्विद्याभ्यसनभूमय इव । यत्र धनुःपरिश्रमः क्रियते ॥ श्रितनागसगन्धसारभूरुहमाला व्यलसन्निहाचलाः । . मलयस्य विलासमूर्तयः शमनाशाङ्कमपास्य हृष्यतः ॥ १४० ॥ इह मेदपाटमण्डले अचलाश्चित्रकूटप्रसुखाः पर्तता व्यलसन् विभान्ति स्म । किंभूताः । श्रिता नागा हस्तिनो यैः । तथा सह गन्धैः परिमलैस्तथा सारैर्मजभिर्वर्तन्ते तादृश्यो भूरुहाणां विविधवृक्षाणां मालाः श्रेणयो येषु । पश्चात् कर्मधारयः । उत्प्रेक्ष्यते-मल. यस्य दक्षिणाचलस्य विलासेनाक्रीडया अथवा विलासार्थ मूर्त्तय काया इव । किंभूता मूर्तयः । श्रिता नागा भुजगा याभिः । 'रुद्धाश्चन्दनपादपा विषधरैरम्भोरुहाः [कण्ट]. कैः' इति सूतोक्तेः । अथ अन्येषामपि द्रुमाणां कोटरेषु प्रायो भुजंगा भवेयुरिति सगन्धसाराः चन्दनद्रुमकलिता भूरुहाणां रसालसालपुंनागप्रियंगुलवङ्गादितरूणां मा
SR No.002262
Book TitleHeer Saubhagya Mahakavyam
Original Sutra AuthorN/A
AuthorDevvimal Gani, Shivdatta Pandit, Kashinath Sharma
PublisherKalandri Jain S M Sangh
Publication Year1985
Total Pages980
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy