________________
२८४
काव्यमाला |
जिनवगणधारिणः पदं समनुज्ञाप्य स सूरिचक्रिणः । गुरुरस्य सहस्रदीधितिप्रमितावर्तनवन्दनान्यदात् ॥ १२३ ॥
स गुरुर्विजयदानसूरिः अस्य सूरिचक्रिणः हीरविजयसूरि सार्वभौमस्य सहस्रदीधितो द्वादशभास्कराः तैरिव प्रमीयन्ते प्रमाणविषयीक्रियन्ते इति सहस्रदीधितिप्रमितानि तादृशान्यावर्तनानि हस्तावर्त करणानि येषु तादृशानि । एतावता द्वादशावर्त वन्दन कानि अदात् ददाति स्म । किं कृत्वा । गणधारिणः गच्छधरस्य पदं समनुज्ञाप्य सम्यक्प्रकारे - णानुज्ञां दत्त्वा । किंवत् | जिनवत् । यथा जिनोऽर्थान्महावीरतीर्थंकरः सुधर्मस्वामिनो गणधारिणः पदं समनुज्ञापयति ॥
वशिनोऽस्य ततो वशंवदां गणभृद्भूमिमणिर्गणश्रियम् ।
स्वसुतस्य पितेव संपदं प्रणयेन प्रणिनाय नीतिमान् ॥ १२४ ॥ . ततो द्वादशावर्तयन्दनप्रदानानन्तरं गणभृत्सु गच्छधरेषु भूमिमणिः क्षोणीरत्नं राजा विजयदानसूरीन्द्रः प्रणयेन स्नेहेन वशिनो जितेन्द्रियस्य अस्य हीरविजयसूरेर्गणश्रियं तपागच्छलक्ष्मीं वशंवदामायत्तां प्रणिनाय चकार । 'सृजति करोति प्रणयति घटयति निर्माति निर्मिमीते च' इति करणार्थाः क्रियाकलापे । क इव । पितेव । यथा जनकः स्वसुतस्य निजपुत्रस्य संपदं गृहासंपत्ति अनुक्रमागतात्मगृहलक्ष्मीं वशंवदां प्र णयति । किंभूतः । नीतिमान् युक्तायुक्त विचारोपेतः । गुरुः पिता च ॥ इति समरथभ. णशालीकृतमहोत्सवपूर्वक श्रीहीर विजय सूरिपुरंदराचार्यपदनन्दिवन्दनकप्रदानवर्णनम् ॥ मुदमादधिरे मुमुक्षवस्तमवाप्याभिनवोदयं प्रभुम् ।
ननृते नरकद्विषं पुनर्गणलक्ष्म्या पुरुषोत्तमं पतिम् ॥ १२५ ॥
मुमुक्षवः संसारासारकारागारं मोक्तमिच्छवः तपागच्छसाधवः अभि सामस्त्येन नवः . 'णु स्तुती' नवनं नवः स्तुतिस्तयुक्तः प्रशंसास्पदं नवीनो वा उदयोऽभ्युदयनं प्रादुर्भावो यस्य तादृशं प्रभुं स्वामिनं हीरविजयसूरिं अवाप्य लब्ध्वा मुदमानन्दम् । अर्थान् मानसे आदधिरे धारयन्ति स्म । पुनरर्थान्तरन्यासे गणलक्ष्म्या तपागच्छश्रिया नवीनाभ्युदयं तं पतिं नायकं प्राप्य ननृते नर्तितम् । किंभूतम् । नरकस्य दुर्गतेर्द्विषं वैरिणम् । पुनः किंभूतम् । पुरुषेषु सकलमनुष्येषु उत्तमं आचार्यत्वात् श्रेष्ठम् । तथा श्रिया क्षीरनीरनिधेर्नन्दिन्यापि नरकासुरसंहारकारिणं पुरुषोत्तमं नारायणं पति भर्तारं संप्राप्य ननृते ॥
गणपूर्वगिरौ महोदय श्रमणव्योममणीसमीक्षणात् ।
कुनयैरिह कौशिकायितं भविकैः पङ्कजकाननायितम् ॥ १२६ ॥ इह जगति भूमिपीठे वा गणस्तपागच्छः स एव पूर्वगिरिरुदयाचल: । 'पूर्वपर्वत तिरोहितात्मनः' इति सुरथोत्सवकाव्ये पूर्वशब्दः । तथा 'अथोदयः पूर्वाद्रिः' इति हैम्या