SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ ६ सर्गः) हीरसौभाग्यम् । २८३ शैवलिनीनां नदीनां वरो भर्ता समुद्रस्तस्योद्वहा पुत्री लक्ष्मीस्तस्या उपयमः पाणिग्रहणं तस्मिन् । सिद्धिलक्ष्मीविवाहे इत्यर्थः । प्रथमोत्सवा इव आदिमाः क्षणा इव ॥ पुरि जानपदीयमानववज आकार्यत तेन सेवकैः । पिकभृङ्गभरः स्वसौरभैरिव कुञ्ज स्मितचूतशाखिना ॥ ११९ ॥ तेन समर्थमणशालिमन्त्रिणा सेवकैः स्वभृत्यवगैर्जानपदीयो गुर्जरमण्डलसंबन्धी मानवव्रजो जनसमूहः पुरि पत्तननगरे आकार्यत आहूयते स्म । आमन्त्रित इत्यर्थः । केनेव । स्मितचूतशाखिनेव । यथा वसन्तसमयविकसितसहकारतरुणा खस्यात्मीयस्य सौरभैरामोदैः परिमलैः कृत्वा पिकभृङ्गभरः कोकिलमधुकरनिकरः कुञ्ज कानने आकार्यते। . सुकृतं प्रविधाय सत्क्रियाममुना संघजनस्य संमदात् । समचीयत शम्बलं महोदयपुर्या प्रयियासुना किमु ॥ १२०॥ अमुना पत्तनाधीशधीसखेन सुकृतं पुण्यं समचीयत सम्यक्प्रकारेण पुष्टं क्रियते स्म । किं कृत्वा । संमदादतिहर्षात् संघजनस्य चातुर्वर्ण्यस्य संघलोकस्य सत्क्रियामशनपानस्वादिमवस्त्राभरणश्रीफलादिदानेन सत्कारं प्रविधाय कृत्वा । उत्प्रेक्ष्यते-महोदयपुर्या निर्वृतिनामनगयाँ प्रयियासुना प्रकर्षेण गन्तुमिच्छुना सता अमुना मन्त्रिणा शम्बलं मार्गनिर्वाहकृत्पाथेयं किमु संचितम् ॥ गुरुनन्दिमहेऽङ्गनासखैर्वसतेमध्यमभूषि मानुषैः । जिनजन्ममहे मरुद्गिरेरिव गीर्वाणगणैरधित्यका ॥ १२१ ॥ गुरोहीरविजयसूरीशितुः नन्दिमहे गच्छानुज्ञामहोत्सवे अङ्गनासखैः खखकलत्रकलितैरथवा निजापरवनितावर्गसहितैर्मानुषैः पुरुषैर्वसतेरुपाश्रयस्य मध्यमभूषि अलंकियते स्म । कैरिव । गीर्वाणगणेरिव । यथा जिनस्य अर्हद्भट्टारकस्य जन्ममहे जन्माभिषेकोत्सवे सुराङ्गनानुगतैर्भवनपतिवानव्यन्तरज्योतिष्कविमानवासिसुरसमूहैर्मरुद्गिरेनिर्जरोवीधरस्य मेरोरधित्यका ऊर्वभूमिश्चलिका भूष्यते॥ गणिनन्दिमहेऽप्सरोगणैरिव मुक्ताभिरुपेत्य यौवतैः । करपीडनमण्डपो यथाक्षतपुरैः समवय॑तालयः ॥ १२२ ॥ साङ्गे प्रवचने अधीती गणिरनूचानश्च तस्य गणेनेन्दिमहे निर्वाणमहोत्सवे यौवतैर्विविधकुलजन्मपुरनिवासियुवतीसमूहरुपेत्यागत्याक्षतपुजैर्लाजव्रजैरालयः उपाश्रयः श्रीगुरुं अतिबहुलसंमर्दतः प्रामुमशक्नुवद्भिन्तदाश्रयत्वाद्वसतिरेव समवयंत वर्धापितः। क इव । करपीडनमण्डप इव। यथा विवाहमण्डपः सधववधूभिरक्षतैर्वर्धाप्यते । करिव । अप्सरोगणैरिव । यथा गौतमादिगणधरः नन्दिमहोत्सवे सुरसुन्दरीवृन्दैर्मुक्ताभिर्मुक्ताफलैः संवर्यते । 'आप्तैर्वर्धापयांचके शुभे योगः शुभस्य हि' इति प्रतिक्रमणसूत्रवृत्तौ ।।
SR No.002262
Book TitleHeer Saubhagya Mahakavyam
Original Sutra AuthorN/A
AuthorDevvimal Gani, Shivdatta Pandit, Kashinath Sharma
PublisherKalandri Jain S M Sangh
Publication Year1985
Total Pages980
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy