SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ काव्यमाला। मन्त्रं अन्वहं निरन्तरम् । त्रिमासी यावदित्यर्थः । केन । विधिना षटाष्टमचतुर्थीवामाहादितपोविधानजिनसौभाग्यादिमुद्राप्रमुखशास्त्रोक्तगुरुपरम्पराप्राप्तप्रकारेण । आरार्द्ध साधयितुं मनो यस्य ॥ विषयेऽप्यखिले तदा पुरीपतिना मारिरवारि जन्मिनाम् । परमार्हतभूमिभास्करं किमु संस्मारयितुं स्वयं नृणाम् ॥ ८४ ॥ . तदा विजयवानसूरेनिविधानावसरे पुरीपतिना शिवपुरीस्वामिना दूदाभिधानभूपेन अखिले समस्तेऽपि विषये स्वमण्डले जन्मिनां द्विपद चतुःपदपक्षिमन्स्यादीनां प्राणिनां मारिर्हिसा अवारि निषिद्धा, अमारि प्रवर्तिता । उत्प्रेक्ष्यते-परमार्हतः कु.. मारपाल: । 'कुमारपालश्चौलुक्यो राजर्षिः परमार्हतः ।' इति हैम्याम् । स एव भूमेः पृथिव्याः भास्करः सूर्यः । 'माध्यंदिनावधि विधेर्वसुधाविवस्वान्' इति नैषधे । एतावता कुमारपालभूपालं खयमात्मना नृणां मनुष्याणां संस्मारयितुं स्मृतिगोचरं कारयितुं किमुं॥ अनिशं वरिवस्थितस्य तत्तपसः सिद्धिरिवाङ्गसङ्गिनी। स्वककान्ततयातिहार्दतो व्रतलक्ष्मीरिव वा वपुष्मती ।। ८५ ॥ सुरसिन्धुरवत्कदाचन प्रणिधानाम्बुधिमध्यगाहिनः । जिनशासनदेवताप्रभोः प्रकटीभावमवीभजत्पुरः ॥ ८६ ॥ (युग्मम्) कदाचन कस्मिन्नपि समयेध्यानपरिसमाप्तिव्यतिकरे जिनशासन देवता शासनाधिष्ठायिका सुरी (१) वाणी (२) त्रिभुवनखामिकी (३) श्रीदेवी (४) यक्षराज (५) गणिपीवका एते शासनाविष्ठातारः। तत्र तिमणां देवीना मध्ये अन्यतमा अमरी देवता प्रभोर्विजयदानसूरेः पुरोऽप्रे प्रकटीभावं प्रचक्षतामवीभजत् भजते स्म । प्रादु नेत्यर्थः । प्रणिधानं सूरिमन्त्रध्यानं तदेवाम्बुधिरर्थात् क्षीरसमुद्रस्तस्य मध्यं गाहते इत्येवंशीलत्य । किं. वत् । सुरसिन्धुरवत् । यथा ऐरावणः प्रगिधानं शुक्लध्यानं तद्वदलम् । एतावता दु. ग्वाम्बुधिस्वस्य मध्यमवगाहते तदुत्पनत्वात्तस्य । उत्प्रेक्ष्यते-जिनशासनदेवता अनिशं अहोरात्रं परिवस्थितस्य सेवितत्याचीर्णस्य तस्य विजयदानसूरेस्तपसः अङ्गस. ङ्गिनी अगस्य शरीरस्य सङ्गः अस्त्यस्या इति मूर्तिमती सिद्धि रिव वा । अथवा स्खककान्ततया निजभर्तृत्वेन अतिहादात् बहुस्नेहात् । स्नेहः प्रीतिः प्रेम हार्दम्' इति हैम्याम् । वपुष्मती अङ्गीकृताङ्गलता शरीरिणी व्रतलक्ष्मीश्चारित्रश्रीरिव प्रादुर्भूता ॥ इति विजयदानसूरेया॑नम् ॥ सफलीकुरु किंकरीमिव क्वचिदादिश्य विधौ व्रतीन्द्र माम् । . प्रणिपत्य पदाम्बुजं प्रभोरिति सा शासननिर्जरी जगौ ॥ ८७॥ सा ध्यानप्रत्यक्षीकृता शासननिर्जरी जिनशासनदेवता इति वक्ष्यमाणं जगौ ब
SR No.002262
Book TitleHeer Saubhagya Mahakavyam
Original Sutra AuthorN/A
AuthorDevvimal Gani, Shivdatta Pandit, Kashinath Sharma
PublisherKalandri Jain S M Sangh
Publication Year1985
Total Pages980
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy