________________
६. सर्गः]
नीरसौभाग्यम् ।
२७३
रापेक्षया वर्तते इत्यर्थः । कि कुर्वन् । विभूषयन् शोभां लम्भयन् । काम् । त्रिदिवं वर्ग अमरावती तात्स्थयात् तद्यपदेशात् खर्गनगरी खसमृद्ध्या उत्प्राबल्येन जयति पराभल्येवंशीलां पुरीं श्रीरोहिणीम् । पुनः किं कुर्वन् । जनतां पुरजनपदवासिनं सर्व लोकसमूह सुखयन् सुखीकुर्वन् । पुन: किं कुर्वन् । वदान्यतां दानशीलत्वं कलयनतिशायिनमुदारभावं विभ्रत् । क इव । विक्रमभानुमानिव । यथा विक्रमादित्यभूपाल जातः । सोऽपि लक्ष्म्या त्रिदिवतुल्यां उबयिनीमवन्तीम् । मध्यमपदलोपी समासः । भू. षयनलंकुर्वन् परदुःखकातरविरुदत्वेनाखिललोकं सुखयन् निर्विघ्नं विदधत् कोटिशः सुवर्णटंककानां दातृत्वेन । 'अवलोअणे सहस्सं आलावे दस सहस्साइं । हसिऊण देइ लक्खं परिउसे विकमो कोडी ॥' इति खाभाविकदानम् । काव्यगाथादीनां कोटिशः सुवर्णानि इति दानिभावं च बिभ्राण इति ॥
सचिवः पुनरस्य भूभुजोऽजनि चाङ्गाभिधसंघनायकः । जिनधर्मरतो निधिर्धियामभयः श्रेणिकभूपतेरिव ॥ ८१ ॥ पुनरन्यदस्य दूदाभिधस्य भूभुजो भूमीपालस्य चाङ्गा इत्यभिधा नाम यस्य तादृशः संघनायकः संघपतिरेतावता 'चाङ्गोसंघवी' नामा सचिवः मत्री अजनि संजातः । किंभूतः । जिन स्याहतो धर्मे रतः आसक्त: श्राद्धधर्मपालकः । पुनः किंभूतः । धियां बुद्धीनां निधिर्निधानम् । क इव । अभय इव । यथा श्रेणिकनाम्नो भूपतेः पृथिवीनायकस्याभयकुमारनामा प्रधानः समभवत् ।सोऽपि जिनप्रणीतधर्मरतस्तथीत्पातिक्यादीनां चतसृणां बुद्धीनां शेवधिः ॥ .
निरमापयदस्य पूर्वजो धरणो राणपुरे चतुर्मुखम् ।
वृषभध्वजतीर्थकृद्गृहं नलिनीगुल्ममिवागतं क्षितौ ॥ ८२ ॥ अस्य चाङ्गासंघभूपतेः पूर्वजः कुले पूर्व जायते स्म तादृशो धरणो धरणकः इति नामा संघपतिः रागपुरे राणपुरनाम्नि नगरे चत्वारि चतुःसंख्याकानि मुखानि द्वाराणि यस्य तादृशं वृषभो ध्वजश्चिदं लाञ्छनं यस्य स एव तीर्थकृजिनेन्द्रः एतावता ऋषभदेवस्तस्य गृहं प्रासादं निरमापयत् शिल्पिभिः कारयति स्म । उत्प्रेक्ष्यते-क्षितौ पृथिव्यामर्थात् खर्गादागतं नलिनीगुल्मं नलिनीगुल्मनामविमानमिव ॥
गणपुंगवमन्त्रमन्वहं विधिनाराद्धमना मुनीश्वरः । .. अथ सुस्थितसूरिशक्रवत्प्रणिधानं विदधे स तत्पुरे ॥ ८३ ॥
अथ शिवपुर्यागमनानन्तरं मुनीश्वरः श्रीविजयदानपूरिः प्रणिधानं ध्यानं विदधे कृतवान् । क । तत्पुरे श्रीरोहिणीनगरे । किंवत् । सुस्थितसूरिशक्रवत् यथा सुस्थितनामा सूरिषु शक्रः पुरंदरः अर्थात् काकन्यां नगर्यो ध्यानं करोति स्म । किं कर्तुकामः(मनाः) । गणपुंगवस्य प्रेमन्त्रं आचार्याणां परम्परया आगतं (गौतमगणभृत् किं)
३५