________________
. ६ सर्गः]
हीरसौभाग्यम् ।
२७१ सूनुः पुत्रः स्थूलभद्रम्तद्वत् । यथा श्रीस्थूलभद्रो मुनिः पठित्वागत्य संभूतिविजयगुरोः पादारविन्दं ववन्दे ॥ इति हीरहर्षगणेः गुरुपार्श्वगमनम् ॥
अथ नारदनाम्नि पत्तने तुरगव्योमरसेन्दुवत्सरे । वृषभाङ्कजिनालये गिरेरिव शंभोर्विभवैः सहोदरे ॥ ७३ ॥. पदमाप्यत पण्डिताह्वयं गणिना तेन यतिक्षितीशितुः । अभिभूय बुधं बुधश्रिया पदमस्यैव किमात्तमात्मना ॥ ७४ ॥
(युग्मम्) अथ गुरुवन्दनानन्तरं हीरहर्षगणिना यतिनां मध्ये क्षितीशितुः नृपाद्विजयदानसूरीन्द्रात् पण्डित इति आह्वयं नाम एतादृशपदं प्रज्ञाम्। संपदमित्यर्थः । आप्यत प्राप्तम् । उ. त्प्रेक्षते-बुधनिया भावप्रधाननिर्देशाद्धत्वस्य पण्डितस्य लक्ष्म्या बुधं रोहिणीनन्दनमभिभूय पराजित्य । त(अ)स्यैव बुधस्यैव पदमात्मना खेनात्तं किं गृहीतमिव । कुत्र वत्सरे । तुरंगाः सूर्याश्वाः सप्त (७), व्योमाकाशं शून्यम् (०), रसाः तिक्त-कटु-कषायआम्ल-लवण-मधुराख्याः षट् (६), इन्दुश्चन्द्रः एक (१) एव, एतावता विक्रमार्कात् सप्तोत्तरे षोडशशतवर्षे (१६०७) । कुत्र पुरे। नारद इति नाम यस्य तादृशे पत्तने ।प. त्तनशब्दः सामान्यतो नगरवाची। 'नगरी पु: पुरी द्रङ्गं पत्तनं पुटभेदनम्' इति हमीवचनात् , न. तु मुख्यवृत्त्येति । अथवा रत्नोत्पत्तिस्थानम् । 'पत्तनं रत्नयोनिः' इति वचनात्। रत्नोपमविजयसेनसूरेरुत्पत्तिस्थानकत्वाद्वा पत्तनम् । 'नडुलाई' नगरे इत्यर्थः । कुत्र स्थाने । वृषभाङ्कस्य सौरभेयध्वजस्यादिनाथस्यालये चैत्ये । उत्प्रेक्षते-विभवैस्तुङ्गिमधवलिमादिशोभाभिः कृत्वा शंभोरीश्वरस्य गिरेः शैलस्य कैलासस्य सहोदरे बान्धवे इव ॥ संवत् १६०७ वर्षे हीरहर्षगणेः पण्डितपदस्थापना ॥
अपि नारदपुर्यनुत्तरैरिव संख्यां विभवैर्हरेः पुरः । तपसः सितपञ्चमीदिने कुलशैलाभ्ररसात्मवत्सरे ॥ ७९ ॥
सुहृदेव समेत्य शोभिते वरकाणाख्यफणीन्दुकेतुना । . .. जलजध्वजसार्वमन्दिरे पदमस्याजनि वाचकाह्वयम् ॥ ७६ ॥
(युग्मम्) - अपि पुनर्जलजः शसोध्वजश्चिद्रं यस्य स चासौ सार्वश्च। एतावता नेमिनाथतीर्थकृत्। जलजशब्देन शङ्खोऽप्युच्यते । यथा रघुवंशे-'ततः प्रियोपात्तरसाधरोष्ठे निवेश्य दध्मी जलजं कुमारः' इति । 'जलजं कमले शङ्ख' इत्यनेकार्थेऽपि । तस्य मन्दिरे प्रासादे अस्य श्रीहर्षप्रज्ञांशस्य वाचकाह्वयं उपाध्यायनामपदमजनि संजातम् । किंभूते मन्दिरे । वरकाणा इत्याख्या नाम यस्य तादृशेन फणीन्दुर्नागराज: केतुश्चिद्रं यस्यैतावता श्रीव