SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ २७० काव्यमाला। कामाविर्भूतसादरोहिणी मूला च' इति चम्च्यायाम् । पुन: पदवीमागीनुछलवे । कि. भूताः । वल्गनः मनोज्ञा: पल्लवपासूनफलकालितत्वेन रम्या: विष्टरा वृक्षा चासु । का इव । वसतीरिव यथा गृहाः प्रकृष्टासनाः स्युः । 'विष्टरः पीठयक्षयोः' इत्यनेकार्थः । पुनः किंभूताः । सह कुरङ्गमग तन्ते ये (याः)। का इव । शशिमण्डलीरिव । यथा च. न्द्रविम्बा लाञ्छनमृगयुक्ताः स्युः । पुन: किंभूताः । स्फुरन्ति पदेपदे दृश्यमानानि अप्प्र. धानाने सरांसि यागु । यथा इवार्थ । का इव । दिवा यथा । देववसतीः स्फुरन्स । इतस्ततो भ्रमन्त्यः क्रीडन्त्यो. वा अप्सरस: उर्वशीप्रमुखाः सुराङ्गना यासु ।। इति वि... हारमार्गः ॥ मरुदेशमभूषयत्क्रमादथ कुंराङ्गजसाबुसिन्धुरः । अतुलैरिव धन्वजन्मिनां सुकृतैः स्वःशिखरी समीयिवान् ॥ ७० ॥ . अथ मार्गोलचनानन्तरं कुंराङ्गजो हीरहर्षः स एव साधूनां मध्ये सिन्धुरः क्रमादनुक्र. मेमा मरुनामानं देशं मण्डलं अभूपयत् शोभा नयति स्म। उत्प्रेक्ष्यते-धन्वनो ममदेशसंवन्धिनो ये जन्मिनो जनास्तेषां न विद्यते तुला साम्यं येषां तरसाधारणैः सुकृतैः पुण्यः स्वःशिखरी कल्पद्रुमः इव समीधिवान् समाजगाम ॥ . . कविना च बुधेन संनिधिस्थितिभाजा क्षितिजन्मना पुनः । सविधे स गुरोरुपेयिवान्विधुवद्वागमृतं ततः किरन् । ७१ ॥ ततो मरुदेशागमनानन्तरं स हीरहर्षगणिर्गुरोविजयदानशूरेः सविधे पाथे उपेयिवान् आगतः । किंवत् । विधुवत् । यथा चन्द्रो गुरोर्वा वस्पतेः पार्थ उपैति । कि. भृतः स विधुः । कविना काव्यकर्ता शुक्रेण च । पुन: केन । बुधेनं । तत्लार्ध पठनात् पाण्डतेन चार्थाद्धर्मसागरगणिना, सोमपुत्रेण च । किंभूतेन । क्षितो भूमण्डले जन्मोत्पत्तिर्यस्य मनुष्यत्वात् , यथा मङ्गलेन च । पुनः किंभूतेन । संनियों समीपे, एकराशी च स्थिति निवासं भजतीति भाक् तेनान्वितो युक्तः । किं कुर्वन् । वाग्वाण्येवामृतं सुधा किरन् विस्तारयन् ॥ स चुचुम्ब पदाम्बुजं गुरोरभिनोनूय नवैः स्तवैस्ततः । मतिदर्पणिकानुबिम्बितश्रुतिभावः शकटालसूनुवत् ॥ ७२ ॥ ततो गुरुसमीपागमनानन्तरं स हीरहर्षगणिर्गुरोविजयदानसूरेः पदाम्बुजं चरणकमलं चुचुम्ब वन्दितवान् । किं कृत्वा । नवनवीनैः स्तवैः स्तोत्रैः कृत्वा अभिनोनूयातिशयेन स्तुत्वा । किंभूतः । मतिबुद्धिरेव दर्पणिका आदर्शिका । 'मन्मतो विमलदर्पणिकायाम्' इति नैषधे । मेवातदेशादौ हस्तकं विना दर्पणस्यादर्शिकेत्यभिधानम् । तस्यामनु. विम्बिताः संक्रान्ताः श्रुतीनां समस्त शास्त्राणां भावा रहस्यानि यस्त्र ! अथवः श्रुतयः पड्दर्शनशास्त्राणि भावा जगापदार्था चना । किंवत् । शकटालनामा न परवानः तन्य
SR No.002262
Book TitleHeer Saubhagya Mahakavyam
Original Sutra AuthorN/A
AuthorDevvimal Gani, Shivdatta Pandit, Kashinath Sharma
PublisherKalandri Jain S M Sangh
Publication Year1985
Total Pages980
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy