________________
६ सर्गः]
हीरसौभाग्यम् ।
२६३
विमनायमानया विरुद्धमनस्कीभवन्त्या लजाखेदचिन्तादुःखोदयमनुभवन्या । 'चिराय तस्थे विमनायमानया' इति नैषधे । 'भृशादिभ्यो भुव्यच्वेर्लोपश्च हलः' । 'भृशादिभ्यो भुव्यर्थे भवत्यर्थे क्यङ् स्यात् । न तु च्च्यन्तेभ्यः अन्तहल् लोपश्च । अभृशो भृशो भवतीति भृशायते । नोन्मना उन्मना भवतीत्युन्मनायते' इति प्रक्रियाकौमुद्याम् । तथा न वि. मना विमना भवतीति विमनायते इति विमनायमाना तया विमनायमानया सत्या दयितोपास्तिनिभात्समुद्रशायिन: कान्तकृष्णस्य सेवाकपटाजलधी समुद्रे अगम्यत गता। बडितेत्यर्थः ॥ इति जसमादेवी ॥
युवसंमदकन्दलीघनैः कमलानन्दनकेलिशीलनैः ।
त्रिदशाविव दम्पती सुखं वसतस्तौ त्रिदिवोपमे पुरे ॥ ४६ ॥ तौ दम्पती जसमादेवीदेवसीव्यवहारिणौ पुरे देवगिरिनगरे सुखं यथा स्यात्तथा वसतस्तिष्ठतः । किंभूते पुरे । त्रिदिवस्य देवलोकस्य उपमा सादृश्यं यस्य । तौ काविव । त्रिदशाविव । यथा देवीदेवौ त्रिदिवे खर्गे सुखं वसतः । देवी च देवश्च देवौ, त्रिदशी च त्रिदशश्च त्रिदशौ । 'पुमान् स्त्रिया' । 'स्त्रिया सहोक्तौ पुमान् शिष्यते, न स्त्री। ब्राह्मणी च ब्राह्मणश्च ब्राह्मणौ' इति प्रक्रियाकौमुद्याम् । तथा 'आदेश्च द्वन्द्वे' । 'द्वन्द्वे आदिपदस्य लोपो भवति । माता च पिता च पितरौ पुत्रौ श्वशुरौ' इत्यादि सारखतव्याकरणेऽपि । सुखं वसतः तिष्ठतः । कमलाया लक्ष्म्या नन्दनः पुत्रः कामस्तस्य केलि. क्रीडा तस्याः शीलनैः सेवनैः पञ्चविषयभोगानुभवनैः । किंभूतैः । यूनां तरुणानां संमदा आनन्दास्ते एव कन्दल्यः कन्दास्तेषु घनैर्मघैः। तदुल्लासकारकत्वात्। 'कन्दलं तु नवाकरे कलध्वनावुपरागे मृगमदे कलापे पञ्चखपि त्रिलिङ्गः । कदली द्रुमे रम्भाख्ये' इत्यनेकार्थस्तदवचूरिश्च । अथ वा तरुणानां हर्षा एव कन्दल्यः रम्भास्तेषु घनैः जलधरैः ॥
परशासनशास्त्रमालिकामयमध्येतुमथो गुरोगिरा ।
व्रजति स्म कदापि दक्षिणां हरितं हीरमुनिर्दिनेशवत् ॥ ४७ ॥
अथो हीरहर्षगणेरधिकारप्रारम्भे अयं पूर्वव्यावर्णितो ग्रन्थनायको वा हीरमुनिहींर.' हर्षनामा मुनिर्गणिराचार्योपाध्यादीनां सर्वेषां साधुसंज्ञा तु जागत्येवेति दक्षिणां हरितं
प्रति व्रजति स्म । कदा । कदापि कस्मिन्नपि समये । कया । गुरोर्विजयदानसूरेगिरा वाचा । किं कर्तुम् । परेषां शैवादीनां शासनानि दर्शनानि तेषां तत्संबन्धिनां शास्त्राणां
माणग्रन्थानां मालिकां श्रेणीमध्येतुं पठितुम्। परशासनोपनिषदं ज्ञातुमित्यर्थः । किंवत् । दिनेशवत् । यथा भाखान्दक्षिणां दिशं प्रति याति ॥
अथ देवगिरावगम्यताखिलतर्काधिजिगांसयामुना ।
पटलेन पयोमुचां यथा सलिलादानसमीहयाम्बुधौ ॥ ४८ ॥ अथेति दक्षिण दिग्गमनानन्तरममुना हीरहर्पगणिना देवगिरी नगरे अगम्यत गतम् ।