SearchBrowseAboutContactDonate
Page Preview
Page 322
Loading...
Download File
Download File
Page Text
________________ हीरसौभाग्यन । अमुना निजामसाहिना पराहताः संग्रामे परिभूता अहिता वैरिभूपालाः शबरा भिल्ला इव । इति शवरवधूभिस्तय॑माणान्यवापुः सपदि विपुलविन्ध्यस्कन्धमध्यं बलानि' इति चम्पूकथायाम् । शवरवधूभिभिल्लीभिरिति तट्टिप्पनके । वने वासो वसनं स्थिति . येषां तादृशा अभूवन् जाताः । अपि पुन भांतिविद्रुताः सन्तः भयाकुलिता वा विपिने वनेऽपि वातवेपितान्मारुतान्दोलितात्पत्रात्पर्णादपि आगतोऽस्मत्पृष्ठे शत्रुरिति धिया अवला निःसत्त्वा इव त्रिय इव वा विभ्यिरे महाभयमलभन्त । भीताः पलायन्ते स्मेत्यर्थः॥ इते देवगिरिस्खामि निजामसाहिः ॥ अथ तत्पुरि देवसीत्यभूदभिधानेन वणिक्पुरंदरः । __विधिनास्य यशःप्रशस्तयोऽम्बरपट्टे लिखिता इवोडवः ॥ ३९ ॥ - अथेति दिगादिनृपवर्णनानन्तरम् । अथ वा या श्राद्धीहीरगणिस्तत्र द्विजपार्श्वे पठतो द्रव्यादिदायिनी भाविनी तद्दम्पत्योर्वर्णनारम्भः । 'अथ अथो समुच्चये मङ्गले संशयारम्भाधिकारान्तरेषु च' इत्यनेकार्थः । तस्यां पुरि सा चासौ पूश्च तत्पूस्तस्यां तत्पुरि देवगिरिनगरे। देवसीत्यभिधानेन नाम्ना वणिजां नैगमानां मध्ये पुरंदरः श्रेष्ठः अभूत्संजातः। उत्प्रेक्ष्यते-विधिना ब्रह्मणा अस्य देवसीव्यवहारिणो यशःप्रशस्तयः कीर्तिवर्णनमयाक्ष. रमालिका अम्बरमाकाशरूपः पट्टस्तस्मिन् लिखिता उत्कीर्णा इव। प्रशस्तयः काः। उडवस्तारका एव । तारकखरूपेण वा प्रशस्तिवर्णाः । 'ध्रुवमप्सरसोऽवतीर्य यां शतमध्यासत तत्सत्री जनः' इति नैपधे । 'जघनस्तनभारगौरवाद्वियदालम्ब्य विहर्तुमक्षमाः' सत्यः शतशोऽप्सरसः सुराङ्गना अवतीर्य आकाशादागत्य यां नगरी कुण्डिनपुरमध्यासताश्रयन्ति स्म । अप्सरसः कस्तत्सखीजनो दमयन्त्या वयसीजनरूप इत्यर्थः । इति तद्वदिदमपीति॥ सुरयौवतजैत्रकान्तियधुवतीसंगमरङ्गिमानसः । वपुरस्य दधत्सुधाशनः किमु कोऽप्यत्र पुरेऽवतीर्णवान् ॥ ४० ॥ अत्र देवगिरी कोऽप्यनिर्दिष्टनामा सुधाशनो देवः । उत्प्रेक्ष्यते-अवतीर्णवान्किमु । अवतारं गृहीतवानिव । किं कुर्वन् । अस्य देवसीव्यवहारिणः वपुः शरीरं दधत् बि. भ्राणः । किंभूतः । सुधाशनः सुराणां देवानां यौवतस्य युवतीसमूहस्य जैत्राजयनशीला कान्तिः शोभा यासां तादृशीभिर्यस्य नगरस्य युवतीभिस्तरुणीभिः समं संगमे रङ्गो रागोऽस्यास्मिन्वा । 'रङ्गो नृत्ययुद्भुवोः । रागे च' इत्यनेकार्थः । तादृङ्मानसं मनो यस्य ॥ कमनः कमनात्प्रसेदुषः सह सारङ्गशोपशीलितात् । भव साङ्ग इतीय तन्निभाद्वरमाप्याजनि मूर्तिमानिह ॥ ४१ ॥ कमनः कामस्तन्निभाद्देवसीच्छलात् । उत्प्रेक्ष्यते--इह देवगिरौ मूर्तिमान् शरीरयुक्त इवाजाने संजातः । किं कृत्वा । सारङ्गशा सह खप्रियया रत्या सार्धम् । उपशीलितात्स १. अयं नैषधीयसंवाद उत्तरश्लोकयोग्यः, अत्र श्लोकेऽवतारबोधकपदाभावात्.
SR No.002262
Book TitleHeer Saubhagya Mahakavyam
Original Sutra AuthorN/A
AuthorDevvimal Gani, Shivdatta Pandit, Kashinath Sharma
PublisherKalandri Jain S M Sangh
Publication Year1985
Total Pages980
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy