SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ २५२ . काव्यमाला। तरुणि विपिने क्वचिदस्मिन्नेव निवसामः ॥' इति दिशोऽपि स्त्रीत्वम् । “निजमुखमितः स्मेरं धत्ते हरेमहिषी हरित् ।' तथा 'वरुगगृहिणीमाशामासादयन्तममुं रुची' इति पदद्वयमपि नैषधे । तेन इदमपि तद्वत् । उत्प्रेक्ष्य ते-कत्यचनाप्यनिर्दिष्टनाम्नः को. पिनो रोषवतः तिनस्तापसस्य शापतः शापवशात्स्व: स्वर्ग: निपपात उच्चैः स्थानादधोभूमौ त्रुटित्वा निपतितः इति परशासनकविसमयवर्णनमात्रमेव । यथा कादम्बरीकथायां केनापि तापसेन तापसः कश्चित्त्वरितं गच्छन् शप्तः । यतस्त्वं मामवन्दित्वैव तुरगवद्गच्छसि ततस्त्वं तुरगो भव।' स तथैव जातः । तथा 'मतङ्गशापादवलेपमूलादवाप्तवानस्मि मतङ्गजत्वम्' इति रघौ । परं न जैनं वच इति ॥ वसति स घटोद्भवो मुनिर्दिशि यस्यां चिरमुज्झितान्यदिक् । .. किमु शम्बरवैरिविभ्रमैर्युवतीभिर्युववद्विमोहितः ॥ ८॥ घटात्कुम्भादुद्भव उत्पत्तिर्यस्य तादृशो मुनिरगस्तितापसः यस्यां दक्षिणस्यां देिशि चिरं गलितावधिकालं वसति स्म स्थितिमानजनि किम् । उज्झिता त्यक्ता अन्याः पूर्वादिकास्तिस्रो दिशो येन। उत्प्रेक्ष्यते-युवतीभिर्दाक्षिणात्यतरुणीभिः शम्बरनाम्नो दैत्यस्य वैरिणो हन्तुः स्मरस्य । 'अरी शम्बरशूर्पको' इति हैम्याम् । विभ्रमैर्विलासैर्युववत्तरुण इव विशेषेण मोहितः । मोहमत्यनुरागं नेहातिशयं वा। मोहं मूर्छामविद्याम् । यथा अनेकार्थनाममालायाम्-'मोहो मूर्छाविपर्ययो' । “मूर्छाविद्या । 'न मुश्चामः कामानहह विषमो मोहमहिमा" इति तदवचूरिः । अविद्या अहंमत्यज्ञाने प्रापितः किमु नीत इव ॥ स्मरविष्टपजैत्रशस्त्रितस्त्रितरोदीर्णविनोदविभ्रमात् । बजतीव कुतूहलीक्षितुं किमु मन्दीभवदधिरंशुमान् ॥९॥ अंशुमान् सूर्यः इह दक्षिणस्यां दिशि व्रजति । किंभूतः । मन्दीभवन्तः वीक्षणरसाद्गमने अत्वरिता जायमानास्तेजोभिः प्रतापैः रहिता वा भवन्तो जायमानाः । 'दिशि मन्दायते तेजो दक्षिणस्यां रवेरपि' इति रघुवचनात् । अयश्चरणाः किरणा वा । अनिशब्देन किरणा अप्युच्यन्ते । यथा नैषधे-'साहस्रैरपि पङ्गुरङ्गिभिरभिव्यक्तीभवन् भानुमान्' इति । किंभूतः । कुतूहलं कौतुकमस्यास्तीति । अत एवोत्प्रेक्ष्यते-स्मरस्य कन्दर्पस्य विष्टपानां त्रयाणां भुवनानां तात्स्थ्यात्तद्यपदेशान्नाकिनागनागराणां जैशस्त्रिताभिर्जयनशीलप्रहरणवदाचरिताभिस्त्रितराभिः प्रधानस्त्रीभिः । 'रहः सहचरी राजन्नेतामपि स्त्रितरा क्षणम्' इति नैषधे । स्त्रितरां श्रेष्ठामिति तदृत्तिः । 'हखो वा, स्त्रियां कापि तरादौ च परे हखो वा भवति । वेणीका श्रेयसीतरा प्रेयसितरा' इति सारखते । तथा स्त्रितरा स्त्रीतरा इति । उदीर्णाः खभावेन प्रकटीकृता विनोदा हास्यक्रीडानृत्यगीतादिका विभ्रमा हावभावविलासाः । अथवा विनोदेन परस्परानन्दकी डाहास्येन विलासास्तानीक्षितुं मोचयितुं किमु व्रजति । दक्षिणदेशविचक्षणनारीति लोकप्रसिद्धिः॥
SR No.002262
Book TitleHeer Saubhagya Mahakavyam
Original Sutra AuthorN/A
AuthorDevvimal Gani, Shivdatta Pandit, Kashinath Sharma
PublisherKalandri Jain S M Sangh
Publication Year1985
Total Pages980
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy