________________
२४८
काव्यमाला।
फलभो यूथनाथेन यद्वद्दम्यः ककुद्मता ।
हीरहर्षः समं सूरिशक्रेण विजहार सः २१४ ॥ स हीरहर्षमुनिः सूरीशक्रेण श्रीविजयदानसूरीन्द्रेण समं सार्ध विजहार विहार कृ. तवान् । किंवत् । यद्वत् । यथा कलभो वालगजः यूधनाथन पष्टिवर्षीयगजराजेन समं विहरति । पुनर्यद्वद्यथा दम्यो वत्सतरः पुष्टो वासः प्राढवृषभेण सह विहरति । 'दम्यो वत्सतरः समा' इति हेम्याम् । यद्वच्छब्द इवार्थे । डमरुकमणिवलालाघण्टान्यायेनोभयत्रापि संबध्यते ॥
प्रीतिजिनेषु वृजिनेषु न तस्य जज्ञे
योगं व्यगाहत मनो न कदापि भोगम् । अङ्गीचकार विरतिं न रति कदाचि
नव्योऽप्यनव्य इव सोऽजनि साधुधुर्यः ॥ २१५ ॥ . स हीरहर्षनामा साधुषु यतिषु धुयों धुरीण: नव्योऽपि नवदीक्षितोऽपि अनव्यः पुरातन इव बहुकालीनमुनिरिवाजनि संजातः । तदेव दर्शयति-तस्रा हीर हर्षमुनेः जिनेषु तीर्थकरेषु प्रीतिः स्नेहस्तत्परता, परं वृजिनेषु हार्द न जज्ञे । 'स्नेहः प्रीतिः प्रेम हार्दम्' इति हेभ्याम् । तस्य मन: योग यमनियमाद्यष्टाङ्गलक्षणां सर्वविरतिमङ्गीचकार । पुन: कदापि कस्मिन्नपि क्षणे रति चिन्तासक्तिम् । 'वृद्धाखिव गतप्रायासु वर्षासु रतिम. कुवाणः' इति चम्पूकथायाम् । राते चिन्तासक्ति मिति तटिपनके । अथ वा रतिमनु. रागं मैथुनादिकं वा ॥
सूरीन्दोः संनिधौ श्रीमान्कुमारश्रमणोऽनिशम् ।
संतानस्य नवोन्निद्रत्पारिजात इवाबभौ ॥ २१६ ॥ . श्रीमानतिशायिशोभावान् कुमारश्रमण: हीरहर्षसाधुः अनिशं निरन्तरं सूरीन्दोर्वि. जयदानसूरिचन्द्रस्य संनिधो पावें बभीक इव । नवोन्निद्रनारिजात इव । यथा नवीनो बाल उन्निद्रद्विकवरीभवन्कुसुमादि कलितो जायमान: पारिजातो विशिष्टकल्पवृक्षः सं. तानस्य नान्नो देवद्रुमस्य समीपे भाति । 'कल्प: पारिजातो मन्दारो हरिचन्दनः । संता. नश्च' इति पञ्चसु कल्पतरुषु मध्ये कविसमये पारिजातस्यैव प्राधान्यं दृश्यते प्रायः । यथा रघुवंशे-'तेषां महार्हासनसंस्थितानामुदारनेपथ्य भृतां स मध्ये । रराज धाम्ना रघुसूनुरेव कल्पद्रुमाणामिव पारिजातः ॥' इति ॥
श्रमणधरणीभर्तुः पादारविन्दनिषेवनात्प्रमुदितमना नाथीदेवीतनूजयतीश्वरः ।