________________
५ सर्गः]
हीरसौभाग्यम् । चित्रां त्वाष्ट्रीं प्राप्याधिकं दीप्यते । अपि पुनः सा संयमश्रीरपि हीरकुमारेण कृत्वा सुषमामतिशायिशोभा श्रयते स्म । केव । वागिव । यथा काव्यादिरूपा सत्कविवाणी चतुरचेतश्चमत्कारकारकेणार्थेन सुषमा श्रयते । पुनः केव । पुरीव । यथा नगरी नीति मता नृपेण सुषमां भजते ॥
हीरहर्ष इति नाम तदीयं निर्ममे विजयदानयतीन्द्रः ।
स्पर्धयेव यशसास्य जनानां कर्णपूरपदवीं तदवापत् ॥ २११ ॥ श्रीविजयदाननामा यतीन्द्रः सूरिः तदीयं हीरकुमारसंबन्धिनामाभिधानं हीरहर्ष इति निर्ममे कृतवान् । तन्नाम अस्य हीरहर्षमुनेः श्लोकेन साकं स्पर्धया संहर्षेणेव ईय॑या वा कृत्वा जनानां सकलभूलोकलोकानां कर्णी श्रवणौ पूर्येते अनेनेति कर्णपूगै कर्णा'भरणौ कुण्डली तयोः पदवी मार्गमश्वर्यादिमयं स्थानं श्रूयमाणतापदं वा अवापत् प्राप॥
नभोङ्गणान्निर्जरहस्तमुक्तामरन्दलुभ्यन्मधुपानुषङ्गे ।
पपात तस्योपरि पुष्पवृष्टिः कटाक्षलक्षा इव मोक्षलक्ष्म्याः ॥२१२॥ नभोगणादाकाशात्तस्योपरि पुष्पवृष्टिः कुसुमवर्ष पपात जाता । किंभूता। निर्जराणां देवानां हस्तैः करैः मुक्ता । पुन: किंभूता। मरन्देषु अविरलानर्गलगलन्मधुषु लुभ्यतां लुब्धीभवतां लोलुपीभावभाजां मधुपानां भ्रमराणामनुषङ्गो यस्याम् । उत्प्रेक्ष्यते-मोक्षलक्ष्म्याः मुक्ति श्रियाः कटाक्षाणामक्षिविकूणितानां लक्षाः शतसहस्राणि इव । लक्षशब्दः स्त्रीक्लीबयोः । 'माने लक्षम्' इति लिङ्गानुशासने ॥
महाव्रती कालमनोभवारिमहोक्षलीलागतिगौरकान्तिः ।
शिवाश्रितः शंभुरिव क्रमेणैशानी दिशं पूर्वमसौ बभाज ॥२१३॥ ___ अयं हीरहर्षमुनिः क्रमेण दीक्षाग्रहणानन्तरं पूर्व प्रथममेशानी दिशमीशानविदिशं बभाज श्रितवान् । तस्यां विहारं कृतवानित्यर्थः । दीक्षितो हि तपस्याग्रहणानन्तरं प्रथममैशानी दिशं प्रति विहरतीति विधिः । क इव । शंभुरिव । यथा ईश्वर ऐशानी दिशं तदधिपत्वात् । कथंभूतोऽयं शंभुश्च । महाव्रती पञ्चमहाव्रतवान् शंभुनामा च । 'महाव्रती वह्नि हिरण्यरेताः' इति हैम्याम् । महाव्रत कापालिलिङ्गमस्यास्तीति व्युत्पत्तिः । कालः कलिकाल: मनोभवः स्मरस्तयो रिपुः । 'कालो यमे दैत्ये च' । मृत्युंजयः का. लारिः स्मरदाही च शिवः । पुनः किंभूतः । महानुक्षो मत्तवृषभस्तद्वद्गतिर्गमनं यस्य । 'मत्तोक्षगमनः पुमान्' इति काव्यकल्पलतायाम् । मत्तो(हो)क्षेण गमनं यस्य वृषभवा. हनत्वात् । पुनः किंभूतः । गौरा स्वर्णवर्णा कान्तिर्यस्य । पक्षे-श्वेता वर्णेन भस्मना वा रुचिर्यस्य । 'गौरः श्वेतेऽरुणे पीते विशुद्धे चन्द्रमस्यपि' इत्यनेकार्थः । पश्चात्कर्मधारयः । पुनः किंभूतः । शिवमङ्गलैः शिवया पार्वत्या च आश्रितः अर्धशंभुत्वात् ॥