________________
१९६
काव्यमाला।
पङ्कजपाणि सूर्य प्रतिभानुपाणे याति । क्षीणश्चन्द्रः पर्वणि भास्करपार्श्वे गला कान्ति. मादायाभ्युदयते इति कविसमयः । अपरथा अन्यसमये अर्थे मृते स्वाभ्युदये संजाते न कदाचिद्गच्छति । एवमन्योऽपि कमलाङ्कितकरं धनिनं प्रति द्रव्यार्थ प्रयाति । कार्य मृते तत्पार्श्वमपि नोपैति । तस्मात्कोऽपि कस्यापि नास्ति । 'प्रकारवचने थाल्' । . 'सामान्यस्य भेदको विशेष प्रकारस्तद्वृत्तेः किमादेस्थाल् स्यात् सर्वप्रकारेण इति सर्वथा इतरथा अपरथा' इति प्रक्रियाकौमुद्याम् ॥
कार्यकाल इतरोऽपि नरेणादीयते तदनु मुच्यत एव । विभ्रमाय विधृतो हृदि हारो हीयते रहसि सोममुखीभिः ॥२६॥ . नरेण मनुष्येण कार्यकाले खकृत्यसमये इतरोऽप्यन्योऽपि खकार्यकृते आदीयते. खीक्रियते । तदनु कार्यकरणानन्तरं सृते कृते मुच्यते त्यज्यत एव । उक्तमर्थमन्त-: रेण दृढीकरोति-सोममुखीभिः स्त्रीभिः विभ्रमाय विलासार्थ शोभाकृते वा हृदि वक्षसि . हृदये धृतः परिहितो हारो मुक्ताकलापो रहसि सुरतक्रीडाकरणसमये । 'संभोगश्च रहो रतिः' इति हैम्याम् । हीयते उत्तार्यते हृदयात् पृथक्रियते । ततः सर्वेषां स्वार्थ एवाभीष्टः॥
जन्मिनामयमकृत्रिममित्रं श्रेयसे तदुदयेजिनधर्मः। .
वैभवाय परिशीलनभावं लम्भितः क्षितिशशीव कृतज्ञः ॥ २७ ॥ तत्कारणात् असारे संसारे अयं स्वर्गापवर्गसाधकत्वेन प्रसिद्धः अकृत्रिममित्रं खाभाविकसुहृत् जिनोक्तो भगवत्प्रणीतो धर्मः परिशीलनभावमुपासनागोचरतां लम्भितः प्रापितः सन् श्रेयसे ऐहलौकिकमुक्तिकृते च उदयेत् प्रकटीभवेत् । किंभूतः । कृतं निर्मितं जानातीति कृतज्ञः । क इव । क्षितिशशीव । यथा कृतज्ञो नृपः सेवितः सन् वैभवाय विभूतिकृते भवेत् ॥
स्वानुजन्मभगिनीकुलवृद्धानाददे तदनुयुज्य तपस्याम् ।
पारलम्भनविभुर्भववाधैर्यत्तरीव नियमस्थितिरेषा ॥ २८ ॥ यत्कारणादेषा मुक्तिनगरप्रध्वरप्रद्धतिः प्रसिद्धा नियमे पश्चमहाव्रतादिमूलगुणोत्तरगुणसम्यक्पालनरूपे यावजीवावस्थानं नियमस्थितिदीक्षा तरीव नौरिव संसारसमुद्रस्य पारलम्भने परतटप्रापणे विभुः समर्था आस्ते । 'तां तृतीयपुरुषार्थवारिधेः पारलम्भनतरीमरीरमत्' इति नैषधे । तत्कारणात् खो ज्ञातिवर्गः । अनुजन्मा कनीयान् श्रीपालाख्यभ्राता राणीविमलासख्ये द्वे भगिन्यौ जामी कुलवृद्धान् गोत्रमहत्तराननुयुज्य पृष्ट्या अहं तपस्यां संयममाददे गृह्णामि ॥ इति हीरकुमारस्य संसारासारताविचारः ॥
सूरिसिन्धुरपुरः स कुमारो व्याजहार मनसीति विमृश्य । दन्तकान्तिमुचुकुन्दसुमैस्तत्पादयोरिव सृजन्नुपहारम् ॥ २९ ॥