________________
५ सगेः] हीरसौभाग्यम् ।
१९१ बालसाल इव कोरकभूषामुद्वहन्वपुषि कण्टकलेखाम् । • तं मुदा नमसितुं स्पृहयन्सोऽध्यास सारथिसनाथरथाकम् ॥ ७ ॥ ___ स होरकुमारः सारथिना सूतेन सनाथ: संयुक्तो यो रथः स्यन्दनस्तस्याङ्कमुत्सङ्गम् । मध्यमित्यर्थः । अध्यास अधिरोहति स्म । किं कुर्वन् । स्पृहयन् कासन् । किं कतुम् । तं गुरुं नमसितुं नमस्कर्तुम् । 'नमसितुमना यनाम स्थाननाम न पूषणम्' इति नेपधे । कया । मुदा हर्षेण । किं कुर्वन् । वपुषि शरीरे कण्टकलेखां रोमाञ्चराजीम् । 'रोमानः कण्टको रोमविकारो रोमहर्षणम्' इति म्याम् । उद्वहन् धारयन् । क इव । बालसाल इव । यथा नवतरुः कोरकाणां कलिकानां मञ्जरीणां भूषां शोभामुद्वहते॥
रंहसास्य मनसो विभुवीक्षोत्कण्ठितस्य दधता किमु मूर्तिम् ।
संचरन्पथि रथेन स तेन प्राप्तवानुपमुनीन्द्रनिकेतम् ॥ ८॥ । स हीरकुमारस्तेन पत्तनागमनसमये व्यावर्णितेन रथेन शताङ्गेन पथि पत्तनमध्य. मार्ग संचरन् प्रचलन्नुपमुनीन्द्रनिकेतं गुरोरुपाश्रयसमीपं प्राप्तवान् समायातः । उत्प्रे. श्यते-मूर्ति शरीरं दधतां विभ्रता विभोः सूरेवीक्षा दर्शनं तत्रोत्कण्ठितस्यात्युत्सुकितस्यास्य कुमारस्य मनसश्चित्तस्य रंहसा वेगेनेव रथेनेत्यसावुत्प्रेक्षा ॥
म्यन्दनान्मणिहिरण्यवरेण्यश्रीजुषः प्रमदमेदुरिताङ्गः ।
स्वर्गिवर्ग इव नाकिविमानादुत्ततार भुवि हीरकुमारः ॥९॥ हीरकुमारः स्यन्दनाद्रथाद्भुवि पृथिव्यामुत्ततार उत्तरति स्म। गुरुं वन्दितुमिति शेषः । किंभूतः कुमारः । प्रमदेन हर्षेण मेदुरितं पुष्टिप्राप्तं पुष्टं जातं वा अङ्गं शरीरं यस्य । स्यन्दनात्कस्मात्क इव । नोकिविमानात् स्वर्गिवर्ग इव । यथा देवयानाद्देवव्रजो भूमौ उत्तरसामवशरणस्थं जिनं नन्तु मिति शेषः । किंभूताद्रथाद्विमानाच्च । मणिभी रत्नैर्हिरण्यैः मुत्र गेवरेण्या प्रकृष्टां श्रियं जुषन्ते सेवते इति ॥ : . सूरिवऋविधुवीक्षणजन्मानन्ददुग्धनिधिफेन इवोद्यन् ।
चन्द्रिकाच्छुरितरुग्दशनानामानने स्मितमनेन वितेने ॥ १० ॥ .. अनेन हीरकुमारेण आनने स्वमुखे स्मितमीषद्धसितं वितेने विदधे चक्रे । किंभूतं स्मितम् । दशनानां दन्तानां चान्द्रकया दीप्त्या छुरिता व्याप्ता । 'दशनचन्द्रिकया व्यवभासितम्' इति । तथा 'चन्द्रच्छुरितं वपुः' इति पाण्डवचरित्रे । रुकान्तिर्यम्य तत् । उत्प्रेक्ष्यते-उद्यन् प्रकटीभवन् सूरेविजयदानगुरोर्व मुखमेव विधुश्चन्द्रस्तस्य वीक्षणाद्दर्शनाचन्मोत्पत्तिर्यस्य तादृशो य आनन्दो हर्षः स एव दुग्धनिधिः क्षीरसमुद्रस्तस्य फैनो डिण्डीर इव ॥
सुरिराजचरणाम्बुजयुग्मे नेमुषो मुखममुष्य बभासे । आगतो मिलितुमत्र वसन्ती जामिमात्मन इव श्रियमिन्दुः ॥ ११ ॥