________________
४ सर्गः] हीरसौभाग्यम् ।
१८१ 'स्याल्लोको विष्टपं विश्वं भुवनं जगती जगत्' इति हैम्याम् । तेन त्रित्वसंख्योपलक्षिता जगती भुवनं त्रिजगतीति संभाव्यते । जना लोका अर्थात् मुरासुरोरगनरास्तेषां ने. त्राणां सुधाञ्जनं नयनासे चनकत्वेनामृतमयश्रोताञ्जनं यद्रािं यस्य वचनविलासानां मधुरिना माधुर्यातिशयेनाधारता हीनीकृता तिरस्कृता सती गोस्तनी द्राक्षा हृदि मनसि त्रपया लजोदयेन । उत्प्रेक्ष्यते-समकुचत्किमु संकोचं प्राप्तवतीव ॥ इति श्रीसुमतिसाधुसूरिः ॥
शीलेन जम्बुगणनाथ इवात्र वज्र
स्वामी परः किमथ वा महिमोदयेन । जज्ञे नवद्वयशतव्रतिसेव्यमाना ' नाम्नाथ हेमविमलः प्रभुरस्य पट्टे ॥ १३१ ॥ अथानन्तरमस्य सुमतिसाधुसूरेः पट्टे नाना अभिधानेन हेमविमल: गच्छाधिराजो जज्ञे जातः । किंभूतः । नवानां नवसंख्यानां द्वयं नवद्वयमेतावताष्टादश तन्मितानि शतानि नवद्यशतानि । तानीव ते व्रतिनश्च साधवस्तः सेव्यमानो नित्यमुपास्यमानः । 'नवद्वयद्वीपपृथग्जयश्रियाम्' इति नैषधे । अष्टादशशतश्रमणपरिवार इत्यर्थः । यः श्रीहेमविमलसूरिः शीलेन दृढब्रह्मचर्येण कृत्वा अत्र जगति । उत्प्रेक्ष्यते-अपरोऽन्यः किमु वनखामी जज्ञे ॥ इति हेमविमलसूरिः ॥ विभूषामद्वैतामकलयदथानन्दविमले
वतीन्द्रे विद्राणाखिलकुदृशि तत्पट्टकमला । 'वसन्ते वासन्तीततिरिव पुनर्धमजयिनि • . क्षितीन्द्रे राज्यश्रीरिव विजितविश्वप्रतिभटे ॥ १३२ ॥
अधानन्तरं तस्य श्रीहेम विमलसूरेः पट्टकमला पदलक्ष्मी: आनन्दविमलनान्नि व. तिनां साधूनामिन्द्रे पुरंदरे सूरिशके न विद्यते द्वैतं युमलमादपरं वस्तुतुल्यं यस्याः
सा द्वैता ताम्। असाधारणीमित्यर्थः। विभूषां शोभामकलयत् दधार । किंभूता । विदाणाः .' पलायिताः । 'विद्राणे रणचवरात्' इति नैषधे । अखिलाः समग्रा अपि कुदृशः परपा
क्षिकाः कुमतभाज: परवादिनो वा यस्मात् । पुनः केव । वासन्तीततिरिव । यथा · मधुसमये माधवी अतिमुक्तकी नाम लतापनिरनन्यां श्रियं बिभर्ति । पुनः केव ।
राज्यश्रीरिव । धर्मेणोपलक्षितः । अथ वा । धर्मेण कृत्वा जयोऽस्यास्तीति धर्मजयी तादृशे क्षितीन्द्रे पृथ्वीपुरंदरे राज्यश्रीभूपत्वलक्ष्मी: शोभां धत्ते । किंभूते नृपे । वि. जिताः पराभूताः विश्वे सर्वे प्रतिभटा वैरिणो येन ॥ त्यक्त्वाशेषकुपक्षिकांश्च कुदृशः किंपाकभूमीरुहा
नरोलम्बैरिव पारिजातशिखरी यो जन्मिभिः शिश्रिये ।