________________
१८०
काव्यमाला।
अतिशायी भवति । तदा जगति महचित्रमस्माकं जायते । सूर्यस्य दक्षिणस्यां तु तेजो. हानिरुत्तरस्यां तु तेजोद्धिः । एतद्गुरोस्तु दक्षिणस्यामपि प्रतापः केनापि सोढुं न शक्यत इत्याश्चर्यम् ॥ इति श्रीमुनिसुन्दरसूरिः ॥
सूरेस्ततोऽजायत रत्नशेखरः श्रीपुण्डरीको वृषभध्वजादिव । बाम्बीति नामा द्विजपुङ्गवेन न्यगादि यो बालसरस्वतीति ॥ १२८॥ ततस्तस्मात् श्रीमुनिसुन्दरसूरीन्द्रात् रत्नशेखर इति नामा सूरिरजायत । क इव । यथा भरतचक्रवर्तिप्रथमसुतः श्रिया गणभृलक्ष्म्या कलितः पुण्डरीकनामा श्रीवृषभध्वजात् वृषभलाञ्छनात् । ध्वजश्चिद्दे पताकायां शिश्ने पूर्व दिशो गृहे । खटाने शोण्डिके माने' इत्यनेकार्थतिलके । आदिदेवाजज्ञे । यः श्रीरत्नशेखरसूरिः स्थम्भतीर्थे बाम्बीनाना द्विजपुङ्गवेन ब्राह्मणश्रेष्ठेन अयं बालसरखती इति न्यगादि कथितः । तदादि बालसरखतीति विरुदं दधार ॥ इति रत्नशेखरसूरिः ॥ लक्ष्मीसागरसूरिशीतंमहसा लक्ष्मीरवापे ततो .
दीपेनेव गुणोदयं कलयता ज्योतिर्वृहद्भानुतः । गायन्तीः सुरसुन्दरीगुणगणान्यस्याष्टदिक्सङ्गिनी
विज्ञायाष्ट विनिर्ममे किमु विधिः श्रोतुं श्रुतीरात्मनः ॥ १२९ ॥ ततः श्रीरत्नशेखरसूरेः सकाशात लक्ष्मीसागर इति नाम्ना सूरिशीतमहसा आचार्येषु भविकाह्लादकत्वेन चन्द्रेण लक्ष्मीः पदृश्रीरवापे प्राप्ता । केनेव । दीपेनेव । यथा गृहमणिना बृहद्भानोहेः सकाशात् ज्योतिर्दीप्तिरवाप्यते । किं कुर्वता, मूरिणा दीपेन च । गुणानां शमदममार्दवार्जवगाम्भीर्यधैर्यादीनां वृत्तेः सूत्रमय्याश्योदयमाविर्भावं च कलयता बिभ्रता । यस्य गुरोर्गुणानां गणान् समूहान् अष्टमु पूर्वाग्नियामीनैर्ऋतप्रतीचीवायूदीचीशानीदिक्षु विदिक्षु च सङ्गोऽस्त्यासामित्यष्टदिक्सङ्गिनीरष्टदिक्षु संतिष्टमानाः सुरसुन्दरीर्देवाङ्गना गायन्तीः कलकण्ठीकष्टानुकरणप्रवणाकुण्ठकण्टकुहरप्रेढोलनापूर्वकमपूर्वगीतिमातन्वतीर्विज्ञाय ज्ञात्वा विधिमा तान् गुणान् श्रोतुं स्वश्रवणगोचरीकतुम् । उत्प्रेक्ष्यते-आत्मनः खस्याष्टसंख्याकाः श्रुतीः कान्किमु निर्ममे कृतवानिव सृ. टिकर्तृकत्वात् । 'दुहिणो विरञ्चिद्रुघणो विरश्चः परमेष्टय जोऽष्टश्रवणः खयंभूः' इति हैम्याम् ॥ इति श्रीलक्ष्मीसागरसूरिः ॥
सुमतिसाधुरभूदथ तत्पदे त्रिजगतीजननेत्रसुधाञ्जनम् । समकुचत्रपया हृदि यद्विरां मधुरिमाधरिता किमु गोस्तनी ॥ १३०॥
अथानन्तरं तस्य श्रीलक्ष्मीसागरसूरेः पदे सुमतिसाधुरिति नामा सूरिरभूद्धभूव । किंभूतः । त्रिजगत्यास्त्रैलोक्यस्य 'त्रिजगतीं पुनन्ती कविसेविता' इति सप्तशतीस्तोप्रकजिनप्रभसूरिकृत ऋषभनाम्नः स्तोत्रे तथा जगतीशब्देन विश्रमप्युच्यते। यथा