SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ • ४ सर्गः हीरसौभाग्यम् । १७१ प्रतिबोध्य सम्यक्त्वधारिणं विधाय जिनराजस्य तीर्थकृतमे बिम्बस्य प्रतिमाया अधिष्ठायक व्यधत्त चकार । कमिव । पूर्वमिव । यथा पूर्व विमलाचले ऋषभमूर्तेरधिष्ठायकोऽभूत्तथैव तत्राप्यकृत । किं कृत्वा । प्रेक्ष्य दृष्ट्वा । अर्थात्तं कपर्दिनम् । किंभूतम् । मिथ्यामतस्य विमला।निष्कासनान्यकपर्दिस्थापनेारोषेण मिथ्यात्वस्योत्सर्पणे वृद्धिविधाने बद्धा कक्षाङ्गीकारो येन । कस्याम् । क्षितौ देवकपत्तनादिभूमौ ॥ शिष्यार्थनानिर्मितसंस्तवस्यानुभावतो देवकपत्तनेऽब्धिः । भूपस्य शुश्रूषुरिवास्य रत्नं तरङ्गहस्तैरुपदीचकार ॥ ११५ ॥ कौतुकान्मणिदर्शनोत्कण्ठया वा निजशिष्याणामर्थनया याच्या आग्रहेण वा निर्मितो रचितोऽर्थान्मन्त्रमय: संस्तवः स्तोत्रं तस्यानुभावत: प्रभावात् देवकपत्तनसमीपसमुद्रः अस्य श्रीधर्मघोषसूरेस्तरङ्गाः कलोला एव हस्तास्तै रत्नं मणिमुपदीचकार ढोकयामास । तेषां च स निर्ग्रन्थत्वेनाग्रहणाभावादम्बुधिः खतरङ्गहस्तोपरि रत्नं दर्शयामासेत्यर्थः । कस्येव । भूपस्येव । यथा शुश्रूषुः सेवां कर्तुमिच्छुः पुमान् राज्ञो रत्नमुपदीकुरुते ।। विद्यापुरे योऽखिलशाकिनीनामुपद्रवं द्रावयति स्म सूरिः । श्रीहेमचन्द्रो भृगुकच्छसंज्ञे पुरे यथा दुर्धरयोगिनीनाम् ॥ ११६ ॥ यः श्रीधर्मघोषसूरिः प्राक् साधुजनसंतापकारिकाणां खागमने पट्टकादिमण्डनं मांसलोहकटकीभूतपायसवटकविहारणं च गुरुशयनपट्टिकोत्पाटनचच्चरानयनमित्याद्युपद्रवविधायिकानां धीविकानामधारिकाणामखिलानां सर्वासां शाकिनीनां सिद्धसीकोत्तरिकाणामुपसर्गनुपद्रवं द्रावयति स्म । चच्च(त्व)रे गमनानन्तरं गुरुभिरुच्छायाभिमन्त्रितचतु:सूचीनां पट्टिकाचतुःपादोपरिक्षेपणेन स्तम्भितानां विभातपायविभावर्या विवसनानां तासां बहुविलपनाननाङ्गुलोक्षेपणनृपतिमृतिभीतिनिवेदनब्रह्मादिसप्तवाग्बन्धप्रदाननगरजनविज्ञप्त्यवधारणालयान्तःपट्टिकानयनपूर्वकं निवारितान् साधुजनान् निरुपद्रवांश्चके। क इव । श्रीहेमचन्द्र इव । यथा धीहेमाचार्यः भृगुकच्छ इति संज्ञा नाम यस्य तादृशे पुरे स्व निर्मापितश्रीमुनिसुव्रतस्वामिप्रासादे प्रहादाद्भगवत्पूजां प्रणीय सायं चैत्याकाशभूमी नृत्यं कर्वतस्त. दवसरे कुत्रचित् प्रयान्तीनां दुर्धराणामुत्कटानां दुष्टानां चतुःषष्टिमितानां योगिनीनामव्यन्तरीविशेषाणां दोषे संजाते सति निश्चेष्टकाष्ठीभूताम्रमन्त्रिणो ज्ञानवृत्तान्त:पवनसाधनया गगनमार्गेण क्षणेनागतः श्रीहेमचन्द्रसूरिः समेत्य साधं समेतयशोभद्रगणिता सिन्धुदेवीप्रासादे गत्वा हक्कादानात्सिन्धुदेवतया भाषणकृते जिह्वाकर्षणादतिरोषजुषा गणिनो दूष(ख)लमध्ये कर्करोपरिमुशलप्रहारप्रदानात्राहि त्राहीति सिन्धुदेवीशरणीभूताभिस्ताभिः समं सिन्धुदेवी सयशोभद्रश्रीहेमचन्दसूरि सानुनयं पदयोः प्रणनाम। तद्वाग्बन्धः कपूर्वकं सर्वदेवानामुपद्रवं विद्रावितवान् आम्रभटं च सजीकृतवान् ॥ यो योगिनं पुष्पकरण्डिनीस्थं दुश्चेष्टितै पनबद्धकक्षम् । पादावनम्र विदधेऽन्तिमोऽहन्निवास्थिकग्रामिकशूलपाणिम् ॥ ११७ ॥
SR No.002262
Book TitleHeer Saubhagya Mahakavyam
Original Sutra AuthorN/A
AuthorDevvimal Gani, Shivdatta Pandit, Kashinath Sharma
PublisherKalandri Jain S M Sangh
Publication Year1985
Total Pages980
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy