________________
८०
काव्यमाला ।
दिगन्तवासं किमपास्य काश्यपीविलासशीलैः ककुभां पुरंदरैः । तदष्टपट्टक्षितिषैरवाप्यतामुनेत्र सीमन्तिनि केवलेन्दिरा ॥ ११९ ॥ 'केशेषु वर्त्म सीमन्त:' इति इम्याम् । प्रशस्यः सीमन्तोऽस्यस्यास्तस्याः संवोधनं है सीमन्तिनि, तस्य भरतस्य अष्टसंख्याकैः पट्टेषु पदेषु क्षितिपैः । अथ वा । तत्पधारिभिमध्यपदलोपे नृपैः । भरतादारभ्य अष्टपट्टधरै राजभिरित्यर्थः । अमुनेव भरतंचक्रिणेव आदर्शगृहे केवलंन्दिरा केवलज्ञानलक्ष्मीरवाप्यत प्राप्ता । उत्प्रेक्ष्यते । दिगन्तवासं दिशां प्रान्ते वसतिमपास्य त्यक्त्वा काश्यपी भूमिस्तस्यां विलासः स्थानवैशिष्ट्यं क्रीडनं वा तत्र शीलं स्वभावो येषां तैः । 'लीला केलिविलासच शृङ्गारभावजक्रिया' इत्यनेकार्थः । केलिः क्रीडा विलासः स्थानवैशिष्ट्यमित्येवं भूरिः ककुभां पुरंदरैरष्टदिक्पालैः किम् । 'आखण्डलो दण्डधरः शिखावान्पतिः प्रतीच्या इति दिव्यहेन्द्रैः' इति नैषधे ॥
ततोऽस्य संख्यातिगपट्टपतिभिः प्रपद्य शत्रुंजयमूर्ध्नि केवलम् । महोदयश्रीः समसेवि भास्करैरिवोदयं द्यौरुदयावनीधरे ॥ १२० ॥
ततः अष्टम पट्टधरदण्डवीर्यराजांनन्तरमस्य भरतचक्रिणः संख्यामतिगच्छन्त्यतिकामन्तीति संख्यातिगाः। कर्मणि डः । ताभिः । असंख्याताभिरित्यर्थः । पतिभिः पट्टधरराजराशत्रुंजयमूर्ध्नि विमलाचलशिखरे केवलं केवलज्ञानं प्रतिपद्यासाद्याधिगत्य महोदयश्रीर्मुक्तिलक्ष्मीः समसेवि संसेविता । कैरिव । भास्करैरिव । यथा दिवाकरैरुदयावनीघरे पूर्वपर्वते उदयमुद्रममवाप्य द्यौर्गगनमण्डली सेव्यते ॥
बभूवुरिक्ष्वाकुकुले सहस्रशः सहस्रशोचिः सदृशा महौजसा । : ततः क्षितीन्द्रा जगदीहितावहा महेन्द्रशैले सुरभूरुहा इव ॥ १२१ ॥ ततः संख्यातिगपट्टपरंपराप्रान्तवर्तिजितशत्रुभूपतिरासीत्तेन स्वसुताजित तीर्थकृते राज्ये विश्राणितम्, श्रीभगवता च स्वपितृभ्रातृसुमित्रधात्री पतिपुत्राय सगरकुमाराय राज्यं प्रददे, स क्रमाद्वक्री भूत्वा चारित्रमादाय सिद्धः सगरचक्रिणोऽनन्तरम् । इक्ष्वाकुकुले सौधर्मेन्द्रेण स्वयं स्थापितस्य श्रीऋषभदेवस्य वंशे सहस्रशः अर्थादसंख्याताः क्षितीन्द्राः पृथिवीपुरंदरा राजानो बभूवुः संजाताः । किंभूताः । महौजसा अतिशायिप्रतापैः सहस्रशोचिषः सूर्यस्य सदृशास्तुल्याः । पुनः किंभूताः । जगदीहितावहाः विश्वकामितविधायकाः । क इव । सुरभूरुहा इव । यथा महेन्द्रशैले मेरौ जगदभिलषितपूरकाः कल्पवृक्षा भवन्ति ॥
इति स्वनागरिकायां मरतदिग्विजयोद्वारप्रतिमाप्रासादकारापणकेवलज्ञानतत्पट्टपरंप• रावर्णनम् ॥
इदं वदन्त्यामरविन्दचक्षुषः पुरोऽय तस्यामपरा निपस्तनी । गिराननं योजयति स्म कौतुकान्मरालिकायामिव कीरकामिनी ॥१२२॥