SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ २ सर्गः) . हीरसौभाग्यम् । ७९ विशतेस्तीर्थकृतामृषभादीनां वर्धमानान्तानां जिनानां गृहं प्रासादं व्यधापयत्कारित. वान् । किं तत् । शाश्वतसार्ववेश्मवत् सिद्धायतन मिव । तच्चैत्यमद्य यावदद्यतनं दिवसं मर्यादोकृत्य वितिष्ठते स्थितमस्ति । किंवत् । ध्रुववत् । यया ध्रुव उतानपादजस्तारको ऽद्याप्याकाशे विद्यते ॥ परान्परःकोटिजिनालयानयं हिरण्यमाणिक्यमयानचीकरत् । जिनेन्द्रमूर्तीरपि कोटिशस्तरीरिवाङ्गिनां संसृतिसिन्धुपातिनाम् ॥११६॥ अयं भरतचक्रवर्ती परान् अन्यान् परःकोटिजिनालयान् कोटेः परे परकोट्यः । कोटिश इत्यर्थः । तादृशान् प्रासादानचीकरत् कारयामास । किंभूतान् । हिरण्यं सुवर्ण माणिक्यानि रत्नानि मणिविशेषा वा तन्मयान् तै रचितान् । अपि पुनः कोटिशो जि. नेन्द्राणाम् अतीतानागतवर्तमानचतुविशतितीर्थकृतां मूर्तीः प्रतिमाः कारयति स्म । उत्प्रेक्ष्यते । संमृतिः संसारः स एव सिन्धुः समुद्रः तत्र रागद्वेषादिना पतनशीलाना. महिनां प्राणिनां तरीस्तरीतुं नाव इव ॥ . नृपोऽयमाद्योऽजनि संघनायकः कृशाङ्गि शत्रुजयरूप्यशीलयोः । क्षमाभृतां भोगभृतां च योऽग्रणीरभूत्पुनः कुण्डलिनामिवाधिभूः ११७ हे कृशागि तन्वङ्गि, अयं नृपो भरतभूमीन्द्रः शत्रुजयरूप्यशीलयोविमलाचलाष्टापद. योराद्यः प्रथमः संघनायकः संघपतिरजनि संजातः । पुनर्यः क्षमाभृतां राज्ञां भोगभृतां भौगिनाम् । 'भोग: श्रीभरतेश्वरे प्रतिपदं लब्धिस्तथा गौतमे' इति सूक्तवचनात् । भोगो राज्यादिसुखं सर्पदेहश्च राज्यादिसर्वसुखभाजां वा अग्रणीच्ख्योऽभूद्वभूव । क इव । कुण्डलिनामधिभरिव । यथा नागनाथः शेषः पृथ्वीधारिणां कुलपर्वतादीनां तथा भोगं सर्पकायं विभ्रतीति भागभृतस्तेषां वासुकिप्रमुखनागानामग्रणीः । शैला हि पादैर्धरां दधते, शेपस्तु सहनसंख्यः स्वफणामण्डलैः सर्वो वसुंधरां धत्ते । अतोऽप्रणीत्वम् ॥ असौ प्रकामप्रमदं ददानया प्रसूतया ध्यानसुधापयोधिना। शिवश्रिया अग्रजयेव केवलश्रिया श्रितो दर्पणिकानिकेतने॥ ११८ ॥ असी भरतचक्री दर्पणिकानिकेतने आदर्शगृहे । 'यन्मतौ विमलदर्पणिकायाम्' इति नैषधे । केवल श्रिया केवलज्ञानलक्ष्म्या धितो भेजे । किंभूतया। प्रकामं सर्वाति शायिनमनन्तं प्रमदं हर्षन् । परमानन्दमित्यर्थः । ददानया यच्छन्त्या। धीरपि प्रकृष्टस्य मातपादाम्भो. जभक्तस्य कानस्य प्रानस्य स्वाङ्गजातस्य प्रमोद दत्ते । पुनः किंभूतया । ध्यानं शुक्लप्रणिधानं तदेव सुधापयोधिः क्षीरसमुद्रः गुल्लध्यानवदुज्वलत्वात्क्षीरमयत्वात् ध्यानामृताधिः । 'गुणश्रेणिसुधानिन्धोः पाण्डोरजागरौजसः' इति पाण्डवचरित्रे । तेन प्रसतया जनितया । श्रीरपि दुग्याब्धेर्जाता । उत्प्रेक्ष्यते । शिवधिया मर्तिलक्ष्म्या अप्रजया ज्ये. भगिन्येव प्रथमोपनत्वेन केवलज्ञानानन्तरं मोक्षमाप्तेः ।।
SR No.002262
Book TitleHeer Saubhagya Mahakavyam
Original Sutra AuthorN/A
AuthorDevvimal Gani, Shivdatta Pandit, Kashinath Sharma
PublisherKalandri Jain S M Sangh
Publication Year1985
Total Pages980
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy