________________
काव्यमाला।
शून्येतरा निर्भरभृता कुन्तलच्छटा केशश्रेणिय॑भावभासे । केव । अभ्रवीथीव । .... ....... यथा स्वर्गिगिरेमरोः काश्चनेन स्वर्णत्वेन त्विषते दीप्यते इति काश्चनत्विट तस्मिन् तादृशे शिलातले प्रतिविम्बिता । 'तत्कम्बुप्रतिविम्बितं किमु शरत्पर्जन्यराजि. श्रियः' इति नैषधे । अभ्रवीथी गमनपद्धतिर्विभाति । 'वीथी वर्त्मनि पतौ च गृहाङ्गे नाव्यरूपके' इत्यनेकार्थः । किंभूता अभ्रवीथी । ग्रहैरुपलक्षणानक्षत्रताराग्रहैः अङ्किताः सहिताः॥
परानवाप्यान्निजवासपत्तनान्मनोभिधानान्मदनावनीभुजा ... जगद्विजेतुं चलितस्य हृत्सुमस्त्रजा पुरो वन्दनमालिकायितम् ॥ ३९ ॥ यस्या नाथीदेव्या हृत् हृदयं तत्र वक्षसि सुमस्रजा पुष्पमालया मदनावनीभुजः स्मर. राजस्य पुरोऽप्रे पुरस्ताद्वन्दनमालिकायितं मङ्गल्यदामवदाचरितम् । मङ्गलाय जातमित्यर्थः । किंभूतस्य मदनस्य । चलितस्य प्रस्थितस्य । कुतः । परैरन्यराजन्यजनैरवाप्तुं योग्यमवाप्यं न अवाप्यमनवाप्यं तस्मात्प्राप्तुमशक्यात् मनोभिधानादर्थात् नाथीचित्त. नानः निजस्यात्मीयस्य पत्तनादधिष्ठाननगरात् । राजधान्या इत्यर्थः । एतावता स्वभर्तारं विना परेण केनापि पुंसा तन्मनः सर्वथापि ग्रहीतुमशक्यम् । एतेन विशेषणेनं तस्याः स. तीत्वमसूचि । चलितस्य किं कर्तुम् । विजेतुं स्ववशीकर्तुम् । किम् । जगत् त्रिभुवनम् ॥
यदीयहृत्केलिनिकेतखेलिनं झषाङ्कमाकारयितुं सुहृत्तया । सितांशुनेव प्रहितोडुमण्डली विभाति यद्वक्षसि मौक्तिकावली ॥ ४० ॥ यस्या वक्षसि हृदये मौक्तिकावली हारलता हारमौक्तिकपतिविभाति । उत्प्रेक्ष्यतेसितांशुना चन्द्रेण सुहृत्तया स्वमित्रत्वेन झषाकं मच्छलाञ्छनं काममाकारयितुं स्वपार्श्व आह्वातुं प्रहिता प्रेषितोडुमण्डली तारकश्रेणिरिव । किंभूतं झषाङ्कम् । यदीयं नाथीसंबन्धि हृन्मन एव केलिनिकेतं क्रीडागृहं तत्र खेलतीत्येवंशीलम् । 'भीमं कृत्वाखे. लिनम्' इति पाण्डवचरित्रे ॥
रथाङ्गलीलां दधतौ प्रभाम्भसि स्तनौ तदीयौ स्फुरतः सचूचुकौ । मरन्दलुभ्यद्भमरानुषङ्गिनौ(गौ) सुवर्णपङ्केरुहकुमालाविव ॥ ११ ॥
प्रभाम्भसि यत्कायकान्तिनीरपूरे रथाङ्गयोश्चक्रवाकयोलीलां शोभां दधतौ धारयन्ती तस्या इमौ तदीयौ नाथीसंवन्धिनौ कुचौ स्फुरतः । किंभूतौ । सह चूचुकाभ्यां स्तनवृ. न्ताभ्यां वर्तेते यौ । उत्प्रेक्ष्यते-सुवर्णपङ्केरुहयोः कनककमलयोः कुड्मलौ कोशाविव । कुबलौ पुंक्लीवलिङ्गे । किंभूतौ । मरन्देषु मधुषु लुभ्यतां लोलुपीभवतां भ्रमराणामनुषङ्गः सङ्गो ययोः । उपरिभ्रमरपरीरम्भितावित्यर्थः ॥
तनूलतागाधतरङ्गितप्रभाप्रतानपायोधिपयस्तितीर्षया । हरिन्मणीसेतुरिवात्मजन्मना व्यधायि रोमावलिरेणचक्षुषः ॥ ४२ ॥