________________
२ सर्गः]
हीरसौभाग्यम् । इति नैषधे । बिभरांदभवुषी विभर्ति स्म । केव । धुनीव । यथा सरित् रोधसि तटे विहसन्तीमुन्मिषन्ती मृणालिकां बिसलतां धत्ते । या किं कुर्वती । अनन्यस्यासाधारणस्य लावण्यस्य रूपातिशयस्य तरङ्गाणां चङ्गतां चारुताम् । 'राजते जिनवचनपद्धतिरुक्तिचङ्गिममालिनी' इति पद्मसुन्दरकविकुतसंस्कृते चङ्गशब्देन मनोज्ञः । पुनः किं कु. वती । नितम्ब आरोहः स्त्रीकट्याः पश्चाद्भागः । 'नितम्बारोहौ स्नीकट्याः पश्चाजघनम. प्रतः' इति हैम्याम् । स एव लीलाकारि विलासविधायकमर्थान्मध्यपदलोपाद्वा पुलिनं तट बिभ्रती धारयन्ती ॥
सकुङ्कमैतद्वदनेन निर्जितं जिगीषया तच्छलदर्शनोत्सुकम् । किमागतं कोकनदं तदन्तिके चकास्ति तस्या नवपाणिपल्लवः ॥ ३६॥ तस्या नाथीदेव्या नवनं नवः स्तुतिः । ‘णु स्तुतौ । सलक्षणतया दातृतया वा स्तुतियुक्तो यः पाणिपल्लव: करकिसलयं स चकास्ति । किमुत्प्रेक्ष्यते--कोकनदं रक्तोत्पलं तस्य भुखस्य समीपे पार्श्वे आगतं समेतमिव । किंमतम् । सह कुङ्कमेन घुसणेन वर्तते तादृशा । रक्तीभतेनेत्यर्थः । एतस्याः कुंराकान्ताया वदनेन मुखेन निर्जितं पराभूतम् । 'अयमुदयति घुसणारुणतरुणीवदनोपमश्चन्द्रः' इति विदग्धमुखमण्डनकाव्ये । तथा'स्पर्धा मिलत्कुमरोधभासा' इति नैपधेऽपि । अत एव । पुनः किंभूतम् । तस्य मुखस्य च्छलस्य स्खलितस्य दर्शने अवलोकने उत्सुकमुत्सुकीभूतम् । कया । जिगीषया अर्थास्वशत्रोस्तन्मुखस्यैव जेतुमिच्छया। प्रतिपक्षो हि छले प्राप्ते परिभ्यते ॥
पृथक्पृथक्पञ्चमुखद्विपन्मुखान्निहन्तुकामेन रुपा मनोभुवा ।
शराश्रये यत्करनाम्नि कल्पिता अमी शराः पञ्च किमङ्गुलीमयाः ॥३७॥ 'मनोभुवा चेतोजन्मना स्मरेण यस्या हीरजनन्याः करः पाणिरेव नाम यस्य तादृशे तस्मिन्वा शराश्रये तूणीरे । किमुत्प्रेक्ष्यते-अङ्गुलीमयाः करशाखारूपाः पञ्च कल्पद्रुमसंख्याकाः अमी जनदृग्गोचराः कल्पिता रचिता इव । स्मरेण किं कर्तुकामेन । रुषा स्वव्यापादनापादनोदितद्वेषाकोपेन पञ्चमुखः शंभुरेव द्विषन् वैरी तस्य मुखान् पञ्चसंख्याकानि वक्राणि । मुखशब्दः पुनपुंसके । पृथक् पृथक् भिन्नानि भिन्नानि कृत्वा निहन्तुकामेन छेत्तुमिच्छता । एतावता पञ्च शिरांसि छेत्तुमित्यर्थः । मुखशब्देन शिरःसमे. तमेव । यथा दशमुखस्य । ‘हरिहरि हरिणीदृशो निमित्तं दश दशकंधरमौलयो लुठन्ति' इति खण्डप्रशस्तौ । यथा तत्र दश मौलयस्तथात्रापि पञ्चापि मस्तकानि इति ॥
यदीयपृष्ठे कनकत्विषि स्मितप्रसूनशून्येतरकुन्तलच्छटा । शिलातले त्वर्गिगिरेरिव ग्रहाङ्किताभ्रवीथी प्रतिबिम्बिता व्यभात् ॥ ३८॥ कनकत्विषि काञ्चनकान्तिनि यस्या इदं यदीयं नाथीसंवन्धि तच्च तत्पृष्ठं च तनोश्चरमः प्रदेशः । 'पृष्ठं तु चरमं तनोः' इति हैम्याम् । तत्र स्मितैर्विकसितैः प्रसूनैः पुष्पैः