________________
(३०) मुनिचन्द्रसूरिविरचितवृत्तिसमेत
तीसा य परणवीसा, पनरस दस चेव सयसहस्साई ।। - तियणेगं पंचूणं, पंचेव अणुत्तरा णिरया ॥५६॥ . त्रिंशत् चकारो भिन्नक्रमे ततः पञ्चविंशतिश्च पञ्चदश दश चैव 'शतसहस्राणि' लक्षा इत्यर्थः, त्रीणि एकं शतसहस्रं, कौटशम् ? इत्याहपञ्चोनम् , पश्चैव ' अनुत्तराः ' अत्यन्ताधमतया सर्वनरकावासप्रधाना निरयाः । अयमत्र भावः-रत्नप्रभायां त्रिंशन्नरकावासशतसहस्राणि भवन्ति । शर्कराप्रभायां पञ्चविंशतिः । वालुकाप्रभायां पञ्चदश । पङ्कप्रभायां दश । धूमप्रभायां त्रीणि । तमःप्रभायामेकं शतसहस्रं परं पञ्चभिनरकावासैरूनम् । महातमःप्रभायां पञ्चैव नरकावासा इति ॥ ५६ ॥ इत्थं सामान्येन रत्नप्रभादिपु पृथ्वीषु पृथक्प्टथक्सर्वनरकावासप्रमाणं प्रतिपाद्य संप्रति तास्वेवावलिकाबाह्यांस्तदितरांश्च नरकावासान् प्रमाणतः प्रतिपादयन् गाथासप्तकमाह
सत्तहा पंच सया, पणणउइ सहस्स लक्ख उणतीसं।. रयणाए सेटिगया, चोयाल सया उ तेत्तीसं ॥ ५७ ॥
'सप्तषष्टानि' सप्तषष्टयधिकानि पञ्च शतानि पश्चनवतिः सहस्राणि लक्षा एकोनत्रिंशत् पदैकदेशेऽपि पदसमुदायोपचारात् ' रत्नायां' रत्नप्रभायां वक्ष्यमाणविशेषणान्यथानुपपत्तिवशेन श्रेणिबाह्या नरकावासा चोद्धव्याः, अङ्कतश्च २९९५६६७ । श्रेणिगता नरकावासाश्चतुश्चत्वारिंशच्छतानि, 'तुः ' विशेषणार्थः, 'त्रयस्त्रिंशानि' त्रयस्त्रिंशत्समधिकानि भवन्ति, अङ्कतोऽपि ४४३३ ॥ १७ ॥ . सत्ताणउइ सहस्सा, चवीसं लक्ख तिसय पंचहिया ।
बीयाए सेढिगया, छब्बीस सया उ पणणउया ॥५८ ॥