________________
नर केन्द्रप्रकरणम् ।
मुहभूमिसमासर्द्ध, अवलंवगसंगुणं तु सव्वगं । पुढवीए पुढवीए, गिरयाणं एस संखेवो ॥ ५४ ॥ 'मुखभूम्योः” “पत्थङतेरे" (गा० ५३ ) इत्यादिना प्रतिपादितस्वरूपयोर्यः समासः - मीलकस्तस्यार्द्ध - दलम्, किम् ? इत्याह- 'अवलम्बकसंगुणं तु' अवलम्बकेन - सर्वष्टथिवीप्रस्तटप्रमाणलक्षणेन सं- एकीभावेन गुणितं पुनः ' सर्वाग्रं समस्त पृथ्वीगतावलिकाप्रविष्ट नरकावा सप्रमाणं भवति । यथा सामान्येन तथा विनाङ्के ना (विशेषेणा ) पि प्रमाणं मन्तव्यमित्याह-
( २९ /
6
' ष्टथिव्यां ष्टथिव्यां ' प्रतिष्टथिवीत्यर्थः ' निरषाणां ' नरकावासानां 'एषः' “ मुखभूमिसमासार्द्धम् ” इत्यादिक्रमगतः 'संक्षेपः' सर्वात्रलक्षणो भवति । नवरं त्रयोदशैकादशादिलक्षणोऽवलम्बको दृश्य इति ॥ ५४ ॥ अस्या एव गाथायाः पूर्वार्द्ध व्याचष्टे
भूमिमुहातेसिं, समाससद्देगा मेलओ होइ ।
• मिलियस्सद्धं उपगणोलंवगुणं तु सव्वग्गं ॥ ५५ ॥ भूमिमुखयोः ' एतयोः ' उक्तप्रमाणयोः समासशब्देन मीलको भव- ति भणितः । ततो मिलितस्य यदर्द्ध तदेकोनपञ्चाशदवलम्बकगुणं 'तुः ' पुनरर्थः सर्वायं भवति । यथा - रत्नप्रभा प्रथमप्रस्तटे नरकाग्रमेकान्ननवतशतत्रयप्रमाणं भूमिः माघवतीसत्कनरकावासपञ्चकं च मुखम्, तयोमीलनेऽर्द्धे च कृते जातं १९७, तस्यैकोनपञ्चाशता ४९ अवलम्बन गुणने जातानि त्रिपञ्चाशदधिकानि षण्णवतिशतानि ९६५३ | एवं प्रत्येकमपि रत्नप्रभादीनां स्वमुखभूमिसमासार्द्धस्य त्रयोदशाद्यवलम्बक - गुणने श्रेणिगतनरकावाससर्वाग्रमुपयुज्य वाच्यमिति ॥ १५॥ अथ सर्व पृथ्वीनां प्रत्येकमावलिकाप्रविष्टतदितरसर्वनरकावा सप्रमाणं तावदाह
1