SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ नरकेन्द्रप्रकरणम् । (??) र्यन्तवर्तिनि लल्लकनामन्यष्टचत्वारिंशतमप्रस्तर इति ||२३|| संप्रत्यप्र तिष्ठानगतनरकावासप्रतिपादनायाह- पुवेण होति कालो, अरें अप्पड़ महकाली । रोरू दाहिणपासे, उत्तरपासे महारारू ।। २४ ।। • पूर्वेण पूर्वम्यां दिशि भवति ' काल: कालनामा नरकावामः, ་ 6 ' अपरेण ' अपरस्यां दिशि' अप्पइट्ट ' ति अप्रतिष्ठानान्नरकावासात महाकालः ' महाकालनामा, तथा ' रोरु: ' रोरुकाख्यः ' दक्षिणपार्श्वे ' दक्षिणदिग्भागे ' उत्तरपार्श्वे ' उत्तरस्यां दिशि ' महारोरु: महारोरुकाः, अप्रतिष्ठानादिति सर्वत्र संबध्यते । अप्रतिष्ठानश्च साम र्थ्यान्मध्ये | यदत्र शेष प्रस्तटप्रसिद्धमपसव्यक्रमं परित्यज्येत्थं नामनिदेशः कृतस्तत्कालादीनां [पूर्वोक्तशेषसर्वप्रस्तटन रकावासेभ्योऽशुभतमत्वख्यापनाय ||२४|| अथ ] सर्वनरंकावासनामाभिधानायाह-पढमबिताउ पुल्वकमेण सीमंतगस्स सेढीए । विज्जा नामविहति, अडयालीसाए श्रियाणं ॥ २५ ॥ .' प्रथमद्वितीयात् प्रथमः- पूर्वस्यां दिशि श्रेणिगतनरकावासापेक्षया सीमन्तकप्रभः, तस्माद्वितीयो यो नरकस्तस्मात् ततः प्रभृतीत्यर्थः, 'पूर्वक्रमेण' पदैकदेशेऽपि पदसमुदायोपचारात्पूर्वानुपूर्वीक्रमेण 'सीमन्तकस्य' सीमन्तकाह्नरत्नप्रभाप्रथमप्रस्तटस्य संबन्धिन्यां श्रेणौ विषयभूतायाम्, किम् ? इत्याह- 'विद्यात्' जानीयात् 'नामविभक्ति' संज्ञाविभागम्, केषाम् ? इत्याह-' अष्टचत्वारिंशतः अष्टचत्वारिंशत्संख्याप्रमाणानां 'निरयाणां ' उक्तनिरुक्तानाम् ॥ २५ ॥ तामेव गाथापञ्चकेनाह 9 -
SR No.002260
Book TitleDevendra Narkendra Prakaranam
Original Sutra AuthorN/A
AuthorMunisundarsuri
PublisherJinshasan Aradhana Trust
Publication Year1989
Total Pages196
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy