________________
. १२) मुनिचन्द्रसूरिविरचितवृत्तिसमेत दिश्वित्यर्थः ‘भवन्ति ' वर्तन्ते, के ? इत्याह-'इन्द्रकविभागाः' आवलिकाप्रविष्टनरकावासलक्षणेन्द्रकविशेषाः। केषु नामेन्द्रकेप्वयं प्रज्ञापनाक्रमो नेवः ? इत्याह-'श्रेणिचरमेषु' प्रतिप्रस्तटं श्रेणिगता ये चरमाः । -पश्चानुपूा मध्यगतेन्द्रकासन्नवर्तिनश्चत्वारश्चत्वारस्तेषु विषये - नियमात् ' निश्चयेन । अस्य नामनिर्देशस्यावधिमाह-निरयावासा अपिशब्दो भिन्नक्रमे, ततो 'लल्लकेऽपि षष्टपृथ्वीचरमप्रस्तटे किं पुनः शेषेषु ? इत्यपि शब्दार्थः, एवं नामविभक्ता बोद्धव्याः । इदमुक्तं भवति--यथा सीमन्तके प्रथमप्रस्तटे सीमन्तकप्रभादिना प्रकारेण चतुर्दिशीन्द्रकविभागो भणितस्तथा यावल्लल्लकः प्रस्तटस्तावदसौ ज्ञेयः । ततो लहकप्रभः पूर्वेण, लल्लकमध्यमक उत्तरेण, ललकावर्तोऽपरेण, लल्लकावशिष्टो दक्षिणेन । सप्तमष्टथिव्यां तु श्रेणिव्यवहार एव नास्ति यादिलक्षणत्वा[ भावा ] तस्याः, अतो न तत्रेधं नामनिर्देश इति ॥ २२ ॥ अमुमेवार्थ स्फुटयन्नाह
सीमंतगादिणाम, अमुंचमाणेण होंति तव्वा । पत्यारे पत्यारे, चउरह जा पत्त ललके ॥ २३ ॥
सीमन्तकादिनाम ' मीमन्तकरोरुकभ्रान्तोद्धान्तादीनामष्टचत्वारिंशतो नरकेन्द्रकाणां नाम-संज्ञां 'अमुञ्चता · अपरित्यजता प्रज्ञापकेन भवन्ति वक्तव्याः, व ? इत्याह-' प्रस्तारे प्रस्तारे' प्रतिप्रस्तटमित्यर्थः । केषाम् ? इत्याह-' चतुर्णा ' अगृहीतवीप्सोऽप्ययं शब्दः प्रस्तावाद् गृहीतवीप्सो द्रष्टव्यः, ततश्चतुर्णा चतुर्णा नरकावासानाम् । नामविभागाः कियहरम् ? इत्याह-यावत्प्राप्तः ‘लडके ' षष्ठष्टथिवीप