________________
(१०) मुनिचन्द्रसूरिविरचितवृत्तिसमेत रकावासप्रमाणात्प्रतिष्ठानप्रस्तटात्सीमन्तकं यावदष्टाप्टनरकावापवृद्धिमुणितव्येति ॥ १७ ॥ ततः किं सिद्धम् ? इत्याह
दो दो दिसासु णिरया, एकेको आवि चउसु विदिसासु । .. लल्लक्के सेढीयं, बीयं पयरं तु तेरसगं ॥ १८॥
द्वौ द्वौ ' दिक्षु ' पूर्वादिकासु 'निरयाः ' उक्तनिरुक्ताः 'एकैकथापि ' एकैक एव चतस्पु विदिक्षु नरकावासा भवन्ति, कस्मिन् ? इत्याह- लल्लके' पूर्वानुपूर्व्या तमःप्रभातृतीयप्रस्तटे । ततोऽपि किं सिद्धम् ? इत्याह--' श्रेणिरियं ' दिक्षु नरकावासद्वयरूपा विदिक्षु चैकैकनरकावासरूपा । एवं सति किं सिद्धम् ? इत्याह-'द्वि. तीयं ' अप्रतिष्ठानाद्वितीयस्थानवर्तिनं ' प्रतरं तु ! प्रतरं पुनः ‘त्रयोदशकं ' त्रयोदशनरकावासप्रमाणं जानीयात् , दिग्वर्तिनामष्टानां विदिग्वर्तिनां चतुर्णामिन्द्रकस्य च मीटन एतत्संख्यासंभवादिति ॥ १८ ॥ शेषप्रस्तटातिदेशमाह -
एकेको य दिसासु, एकेको यावि चउसु विदिसासु । एस गमो णेयव्यो, पयरे पयरे उवरिहुत्तो ॥ १६ ॥
'एकैकश्च' एकैक एव दिक्षु 'एकैकश्चापि ' एकैक एव च चतसृषु विदिक्षु नरकावासः, वर्धत इति सामर्थ्याद्गम्यते । एषः' अष्टाष्टवृद्धिरूपः ‘गमः ' अर्थमार्गः 'ज्ञातव्यः' ज्ञेयः 'प्रतरे प्रतरे' प्रतिप्रतरमिति योऽर्थः, कथम् ? इत्याह-' उवरिहत्तो 'त्ति ऊर्ध्वमुखः । ततः सीमन्तकप्रस्तटे प्रत्येकं दिल्वेकोनपञ्चाशत् विदिक्षु चाप्टचत्वारिंशन्नरकावासा भवन्तीति ॥ १९ ॥ संप्रति प्रथमप्रस्तटे चतुर्णा नरका