________________
चलिकाप्रविष्टानि विमानानि विमानेन्द्रका इत्युच्यन्ते । एवं नरकेन्द्रका अपि सीमन्तकादयोऽप्रतिष्टानान्ता अधोलोकगता एकोनपञ्चाशत् , तन्मूलकाश्चान्येऽप्यावलिकागता नरकावासा नरकेन्द्रका वाच्या इति । अत्र “सिद्धानभिवन्द्य” इति मङ्गलमुक्तम् , सिद्धाभिवन्दनस्य सकलाकुशलकलापनिर्मूलोन्मूलनक्षमत्वेन भावमङ्गलत्वात् । “विमाननरकेन्द्रान् वक्ष्ये" इत्यनेन त्वभिधेयम् , तेषामेवात्राभिधातुमभिलषितत्वात् । संबन्धस्त्वभिधानाभिधेयलक्षणोऽभिधेयनिर्देशेनैवावगत इति न साक्षादुक्तः । प्रयोजनं पुनः शास्त्रप्रणयनस्य परार्थतया प्रवृत्तत्वेन कर्तुरनन्तरं सत्त्वानुग्रहः, श्रोतुश्च प्रकरणााधिगमः; परम्परं तूभयोरपि समस्तातङ्कपकविकलोऽपवर्गः, सकलस्यापि कुशलानुष्ठानस्य सिद्धिसौधरोहं प्रत्यवन्ध्यकारणत्वादिति ॥ १ ॥ सांप्रतं " यच्चार्चितं द्वयोः" इति न्याया. द्विमानेन्द्रकाणां प्रथममुपन्यासेऽपि गुणस्थानकानामिव हीनादिक्रमतः सर्वभावानां शास्त्रे प्रज्ञापनमिति नरकेन्द्रकानेव प्रथमतः प्रज्ञापयन्नाह
. दह तियअहिया एगाहिया य नव सत्त पंच तिय एगो। .. गरइंदए कमो खलु, ओसरमाणो उ रयणाई ॥२॥ . . दश त्र्यधिका नरकेन्द्रकास्त्रयोदशेतिभावः, तथैकाधिका दशेत्यनुवर्तते एकादशेति, यावत् नव सप्त पञ्च त्रय एको नरकेन्द्रक उक्तरूपः, एकारान्तताऽत्र “ए होइ अयारते” इति प्राकृतलक्षणवशात् । अयं च 'क्रमः' संख्यापरिपाटिलक्षणः खलुः' वाक्यालङ्कारे अपसरंश्च' द्विकहान्या हीयमान एव । कीदृशः ? इत्याह- रत्नादिः' पदैकदेशेऽपि पदसमुदायोपचारात्प्रभाटथिवीप्रभृतिकः । इदमुक्तं भवति-रत्नप्रभाप्रथिव्यां त्रयोदश नरकेन्द्रकाः, शर्कराप्रभायामेकादश, एवं यावत्तमस्तमःप्रभाया